SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् निर्देशेऽपि नानन्तर्यमाश्रीयते' इति // 3975 / सगतिरपि तिङ् (8-1-68) / पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् / यत्काष्टं प्रपचति / ' तितिङः' (सू 3935) इति निघातस्य 'निपातैर्यत्' (सू 3937) इति निषेधे प्राप्ते विधिरयम् / सगतिग्रहणाच गतिरपि निहन्यते / 'गतिग्रहणे उपसर्गग्रहणमिष्यते' (वा 4732) / नेह / यत्काष्ठं शुष्कीकरोति // 3976 / कुत्सन च सुप्यगोत्रादौ (8-1-69) / कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः / पचति पूति / प्रपचति पूति / पचति मिथ्या / 'कुत्सने' किम् / प्रपचति शोभनम् / 'सुपि' किम् / पचति क्लिश्नाति / 'अगोत्रादौ' किम् / पचति गोत्रम् / 'क्रियाकुत्सन इति वाच्यम्' (वा 4739) / कर्तुः कुत्सन मा भूत् / पचति पूतिर्देवदत्तः। 'पूतिश्चानुबन्ध इति वाच्यम्' (वा 4741) / तेनायं चकारानुबन्धत्वादन्तोदात्तः / ‘वा बह्वर्थमनुदात्तमिति वाच्यम्' (वा 4742) / पचन्तिपूति // 3977 / गतिगतो (8-1-70) / अनुदात्तः / अभ्युद्धरति / 'गतिः' किम् / दत्तः पचति / ‘गतौ' किम् / 'आमन्द्ररिन्द्र हरिभिर्याहि मयूरोमभिः' / / 3978 / तिङि चोदात्तवति (8-1-71) / गतिरनुदात्तः / यत्प्रपचति / तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् / अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात्प्रत्यये न स्यात् / 'उदातवति' किम् / प्रपचति // _इति तिङन्तस्वराः। अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते–'अग्निमीळे' इति प्रथमझ् / तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष' (फिट 1) इत्यन्तोदात्त इति माधवः। वस्तुतस्तु घृतादित्वात् / व्युत्पत्तौ तु निप्रत्ययस्वरेण / असुप्त्वादनुदात्तः / 'अमि पूर्वः' (सू 194) इत्येकादेशस्तु 'एकादेश उदात्तेन-' (सू 3658) इत्युदात्तः / ईळे / 'तिङ्ङतिङः' (सू 3935) इति निघातः / संहितायां तु 'उदात्तादनुदात्तस्य-' (सू 3660) इतीकारः स्वरितः / ‘स्वरितात्संहितायाम्-' (सू 3668) इति 'के' इत्यस्य प्रचयापरपर्याया एकश्रुतिः / पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' (1975) इत्यसिप्रत्ययस्वरात् / हितशब्दोऽपि धाओ निष्ठायाम् 'दधातेर्हिः' (सू 3076) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः। 'पुरोऽव्ययम् ' (सू 768) इति गतिसंज्ञायां 'कुगति-' (सू 761) इति समास समासान्तोदात्त 'तत्पुरुषे तुल्यार्थ-' (सू 3736) इत्यव्ययपूर्वपदप्रकृतिस्वरे ‘गतिकारकोपपदात्कृत्' (सू 3873) इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्दैन प्राप्ते 'गतिरनन्तरः' (सू 3783) इति पूर्वपदप्रकृतिस्वरः / पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते 'उदात्तस्वरितपरस्य सन्नतरः' (सू 3669) इत्यनुदात्ततरः / यज्ञस्य / नङः प्रत्ययस्वरः / विभक्तः सुप्त्वादनुदात्तत्वे स्वरितत्वम् / देवम् / पचाद्यच् / फिटस्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः / ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः / होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः / रत्नशब्दो 'नविषयस्य' (फिट् 26) इत्यायुदात्तः / रत्नानि दधातीति रत्नधाः / समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः / तमपः पित्त्वादनुदात्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुग्नेयम् // इति स्वरप्रकरणम् // इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् / तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy