________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 728 सिद्धान्तकौमुद्याम् परिमाणमित्यर्थे वाच्यः' (वा 3131) / पञ्चदशिनोऽर्धमासाः / त्रिंशिनो मासाः / 'विंशतेश्चेति वाच्यम्' (वा 3132) / विंशिनोऽङ्गिरसः / 'युष्मदस्मदोः सादृश्ये वतुब्वाच्यः' (वा 3138) 'त्वावतः पुरूवसो' / 'न त्वावां अन्यः' / 'यज्ञं विप्रस्य मावतः' // 3492 / छन्दसि च (5-1-67) / प्रातिपदिकमात्रात् तदर्हति' इत्यर्थे यत्स्याच्छन्दसि / ‘सादन्यं विदथ्यम्' // 3493 / वत्सरान्ताच्छश्छन्दसि (5-1-91) / निर्वृत्तादिष्वर्थेषु / इद्वत्सरीयः // 3494 / संपरिपूर्वात्ख च (5-1-92) / चाच्छः / संवत्सरीणः-संवत्सरीयः / परिवत्सरीणः-परिवत्सरीयः // 3495 / छन्दसि घस् (5-1-106) / ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे / 'भाग ऋत्वियः // 3496 / उपसर्गाच्छन्दसि धात्वर्थे (5-1-118) / धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् / 'यदुद्वतो निवतः' / उद्गतानिर्गतादित्यर्थः // 3497 / थट् च च्छन्दसि (5-2.50) / नान्तादसङ्ख्यादेः परस्य डटस्थट् स्यान्मट् च / पञ्चथम्-पञ्चमम् / 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (सू 1889) / ‘पर्यवस्थाता शत्रुः' / 'अपत्यं परिपन्थिनम्' / 'मा त्वा परिपरिणौ विदन्' // 3498 / बहुलं छन्दसि (5-2-122) / मत्वर्थे विनिः स्यात् / 'अग्निस्ते ओजस्वी' / 'छन्दोविन्प्रकरणे अष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्' (वा 3211) इति दीर्घः / 'मंहिष्टमुभयाविनम्' / 'शुनमष्ट्राव्यचरत्' / 'छन्दसीवनिपौ च वक्तव्यौ' (वा 3202) / ई। 'रथीरभूत्' / 'सुमङ्गलीरियं वधूः' / 'मघवानमीमहे' // 3499 / तयोर्दा हिलौ च च्छन्दसि (5-3-20) / इदंतदोर्यथासङ्ख्यं स्तः। 'इदा हि वे उपस्तुतिम्' / तर्हि // 3500 / था हेतौ च च्छन्दसि (5-3-26) किमस्था स्याद्धेतौ प्रकारे च / 'कथा ग्रामं न पृच्छसि' / 'कथा दाशेम' // 3501 / पश्च पश्चा च च्छन्दसि (5-3-33) / अवरस्यास्तात्यर्थे निपातौ / ‘पश्च हि सः' / 'नो ते पश्चा' 'तुश्छन्दसि' (सू 2007) / तृजन्तान्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः। 'आसुतिं करिष्टः' / दोहीयसी धेनुः // 3502 / प्रत्नपूर्वविश्वेमात्थाल्छन्दसि (5-3-111) / इवार्थे / 'तं प्रत्नथा पूर्वथा विश्वथेमथा' // 3503 / अमु च च्छन्दसि (5-4-12) / किमेत्तिव्ययघादित्येव / 'प्रतं नय प्रतराम्' // 3504 / वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि (5-4-41) / स्वार्थे 'यो नो दुरेवो वृकतिः' / 'ज्येष्टतातिं बर्हिषदम्' // 3505 / अनसन्तानपुंसकाच्छन्दसि (5-4-103) / तत्पुरुषाच्स्यात्समासान्तः / 'ब्रह्मसामं भवति' / 'देवच्छन्दसानि' // 3506 / बहुप्रजाश्छन्दसि (5-4-123) / 'बहुप्रजा निर्ऋतिमाविवेश' // 3507 / छन्दसि च (5-4-142) दन्तस्य दतृ स्याद्बहुव्रीहौ / 'उभयतोदतः प्रतिगृह्णाति' // 3508 / ऋतश्छन्दसि (5-4-158) / ऋदन्ताबहुव्रीहेर्न कप् / हता माता यस्य हतमाता // इति पञ्चमोऽध्यायः। 'एकाचो द्वे प्रथमस्य' (सू 2175) / 'छन्दसि वेति वक्तव्यम् ' (वा 3414) / 'यो जागार' 'दाति प्रियाणि' // 3509 / तुजादीनां दीर्घोऽभ्यासस्य (6-1-7) / तुजादिराकृतिगणः / 'प्रभरा तूतुजानः' / 'सूर्ये मामहानम्' / 'दाधारः यः पृथिवीम्' / 'स तूताव' // 3510 / बहुलं छन्दसि (6-1-34) / ह्वः सम्प्रसारणं स्यात् / 'इन्द्रमा हुव ऊतये' / 'ऋचि त्ररुत्तरपदादिलोपश्च छन्दसि' (वा 3472) / ऋक्छब्दे परे त्रैः सम्प्रसारणमुत्तरपदादेर्लोपश्चेति For Private And Personal Use Only