________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः बालमनोरमा / 643 558 / हपिषिरुहिकृतिविदिछिदिकीर्तिभ्यश्च / हरिविष्णावहाविन्द्रे भेके सिंहे हये रवौ / चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः / पेषिवज्रम् / रोहिव्रती / वर्ति: / वेदिः / छेदिश्छेत्ता / कीर्तिः / _559 / इगुपधाकित् / कृषिः / ऋषिः / शुचिः / लिपिः / बाहुलकाद्वत्वे लिबिः / तूल निष्कर्षे / तूलिः / तूली / कूर्चिका / / 560 / भ्रमेः संप्रसारणं च / भृमिर्वात: / बाहुलकाद्धमिः / 561 / क्रमितमिशतिस्तम्भामत इच्च / क्रिमिः / संप्रसारणानुवृत्तः कृमिरपि / तिमिर्मत्स्यभेदः / शितिर्मेचकशुक्लयोः / स्तिम्भिः समुद्रः / 562 / मनेरुच्च / मुनिः / युगे' इति च / इह इनित्येव सूत्रम् / अधिकन्तु प्रक्षिप्तं व्यर्थञ्च / एवं 'सर्वधातुभ्यष्ट्रन्' इत्यादावपि / अत एव दशपाद्यामिनित्येव पठितमिति दिक् / हृपिषि // हरतेः कीर्तयतेश्च 'अच इः' इति प्राप्ते इतरेषां तु 'इगुपधात्' इति कित्त्वे प्राप्ते वचनम् / 'हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु / कपी सिंहे हरेऽर्जेऽशौ शके लोकान्तरे पुमान् / वाच्यवल्लिङ्गहरितोः' इति मेदिनी / 'वर्तिर्भेषजनिर्माण नयनाञ्जनलेखयोः / मात्रानुलेपनीदीपदशादीपेषु योषिति / वेदिः स्यात्पण्डिते पुमान् / स्त्रियामङ्गुलिमुद्रायां स्यात्परिष्कृतभूतले' इति च / 'कीर्तिः प्रसादयशसोर्विकारे कर्दमेऽपि च' इति विश्वः / ‘सा रसवत्ता विगता नवका विलसन्ति चरति नो कङ्कः / सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये' इति कविप्रयोगः। इगुपधात्कित् // इनः कित्त्वं विधीयते / केचित्तु किरिति पठित्वा इनोऽपवादः किप्रत्यय इत्याहुः / तन्न / प्रत्ययवरेण प्रातिपदिकानामन्तोदात्ततापत्तेः / न चेष्टापत्तिः / 'अग्निः पूर्वेभिर्ऋषिभिः / ऋषिर्विप्रः काव्येन / शुचिर्विप्रः शुचिः कविः' इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनात् / कथं तर्हि 'अक्षर्मा दिव्य कृषिमित्कृषस्व' इत्यादौ कृषिशब्दस्यान्तोदात्ततेति चेत् / 'इक कृष्यादिभ्यः' इतीक्प्रत्यये सतीति गृहाण / 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम् / शुचिर्तीष्माग्निशृङ्गारेष्वौषधे शुद्धमन्त्रिणि' इति मेदिनी / यत्तु माधवेन ‘अग्निः पूर्वेभिरित्यग्व्याख्यावसरे ऋषिशब्दस्येप्रत्ययान्तत्वमङ्गीकृत्य, 'ऋष्यन्धक' इति निपातनालघूपधगुणाभाव इत्युक्तं तत्प्रकृतसूत्रविस्मरणमूलकत्वादुपेक्ष्यम् / भ्रमेः // 'भृमि विद्यथावसवोऽजुषन्त' इति मन्त्र भूमि भ्रमणशीलन्दरिद्रञ्जनमिति वेदभाष्यम् / क्रमितमि // ‘क्रमु पादविक्षेपे / ' 'कृमिना क्रिमिवत्कीटे लाक्षायां क्रिमिले खरे' इति विश्वमेदिन्यो। 'पारतं पारदं वाऽस्त्री वासरः क्रिमिवत्कृमिः' इति द्विरूपकोशः / तिमिरिति // 'तमु काढायाम् / ' 'अस्ति मत्स्यस्तिमिर्नाम तथा चास्ति तिमिङ्गिलः / तिमिलिगिलोऽप्यस्ति तद्गिलोऽप्यस्ति लक्ष्मण' इति रामायणे सप्तमे काण्डे रामवाक्यम् / 'शितिः कृष्णेऽसिते भूर्जे' इति विश्वः / 'शितिभूर्जे ना रसितासितयोस्त्रिषु' इति मेदिनी। मनेरुश्च // 'मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी / For Private And Personal Use Only