________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / तध्वमोर्विषये तु हिस्वौ वा स्तः / पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्यते / हिस्वविधानसामर्थ्यात् / तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि / आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु / 2826 / ससुच्चयेऽन्यतरस्याम् / (3-4-3) भिप्रायमेकवचनम् / ननु हिस्वयोरुभयोरपि लादेशत्वात् परस्मैपदत्वं स्यात् / तथा सति हेः परस्मैपदत्वं स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिद्ध्येत् / अस्य स्वादेशस्य तङ्प्रत्याहारप्रविष्टत्वाभावेन ' तङानावात्मनेपदम्' इत्यस्याप्रवृत्तेः / 'तिप्तझि' इत्यादिसूत्रोपात्तेषु तातामादिष्वेव तसंज्ञाप्रवृत्तेः। किञ्च अनयोर्हिस्वयोः ‘तिप्तस्झि' इति सूत्रानन्तर्भूतत्वात्तत्वञ्च दुर्लभमित्यत आह / तौ चेति // लोटो हिस्वाविति द्वितीयवाक्ये तावत्क्रियासमभिहारे लोडिति प्रथमवाक्यात् लोडित्यनुवृत्तं स्थानषष्ट्या विपरिणतं तृतीयं वाक्यं सम्पद्यते / तत्र हिलोटो हिस्वौ इति द्वितीयवाक्यात् हिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते / तथा च लोडादेशौ हि स्ववद्भवत इति लभ्यते / कौ भवतः इत्याकांक्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते / ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्भूतहिस्ववत् भवत इति तृतीयं वाक्यं पर्यवस्यति / तिङन्तर्भूतहिस्वयोस्तावत् क्रमात् परस्मैपदत्वमात्मनेपदत्वञ्च / प्रसिद्धं तित्वम् / अतः प्रकृतौ हिस्वौ क्रमात् परस्मैपदात्मनेपदसंज्ञौ स्तः तिडसंज्ञौ चेत्यर्थः / तिङ्त्वात्पदत्वंसिद्धिः / ननु वा च तध्वमोः इति तध्वमोर्हिस्वादेशविकल्पविधिरनुपपन्नः / लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तरित्यत आह / तध्वमोर्विषये त्विति // स्थानषष्टीमाश्रित्य लोडादेशतध्वमोः स्थाने हिस्वाविल्यर्थ इति न भ्रमितव्यम् / येनोक्तदोषः स्यात् / किन्तु विषयविषयिभावः षष्ठ्यर्थः / तथाच तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः / अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्यते / व्याख्यानात् / ध्वंसाहचर्याच / ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशायुष्यत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्वौ स्याताम् / तथाच “इमौ हिस्वौ सर्वेषां पुरुषाणां सर्वेषाञ्च वचनानामिध्यते” इति भाष्यमनुपपन्नमित्यत आह / पुरुषैकवचनसंज्ञे विति॥ हिस्वयोर्मध्यमपुरुषसंज्ञा एकवचनसंज्ञा च नातिदिश्यते इत्यर्थः। कुत इत्यत आह। हिस्वविधानेति॥ यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्याताम् / तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव लोटो हिस्वौ स्याताम् / अन्यत्र तु यथायथन्तिबाद्यादेशाः स्युः / तथा सति लोटो हिस्वविधानमनर्थकं स्यात् / अतो न पुरुषवचनातिदेशा इत्यर्थः / तेनेति // हिस्खयोः पुरुष. वचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः / सकलेति // सकलपुरुषवचनविषये हिर्भवति / स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृवित्यर्थः / शेषात्कर्तरि परस्मैपदमित्युक्तरिति भावः / आत्मनेपदिभ्यः स्वः इति॥ 'अनुदात्तडित आत्मनेपदम् , भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यः भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः / अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः / समुच्चये // For Private And Personal Use Only