________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता लकारार्थ 'विधिनिमन्त्रण-' (सू 2208) इति लिङ् / विधौ / यजेत / निमन्त्रणे / इह भुञ्जीत भवान् / आमन्त्रणे / इहासीत / अधीष्टे / पुत्रमध्यापयेद्भवान् / संप्रसारणे'। किं भो वेदमधीयीय उत तर्कम् / प्रार्थने / भो भोजनं लभेय / एवं लोट् / 2817 / प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च / (3-3-163) लोट् च / प्रैषो विधिः / अतिसर्ग: कामचारानुज्ञा / भवता यष्टव्यम् / भवान्यजताम् / चकारेण लेटोऽनुकर्षणं प्राप्तकालार्थम् / 2818 / लिङ् चोर्ध्वमौहूर्तिके / (3-3-164) प्रैषादयोऽनुवर्तन्ते / मुहूर्तादूर्ध्व यजेत-यजताम्-यष्टव्यम् / 2819 / स्मे लोट् / (3-3-165) पूर्वसूत्रस्य विषये। लिङः कृत्यानां चापवादः / ऊर्ध्व मुहूर्ताद्यजतां स्म / 2820 / अधीष्टे च / (3-3-166) क्रमप्राप्तत्वात् स्मारितम् / सम्प्रसारणे इति // सम्प्रश्न इत्यर्थः / एवं लोडिति // लोट् चेति विध्यादिषु विहितो लोडप्येवमुदाहियते इत्यर्थः / प्रैषातिसर्ग // लोट् चेति // पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते / कृत्यसंज्ञकाः प्रत्ययाः वक्ष्यमाणो लोट्च प्रैषादिषु भवन्तीत्यर्थः / प्रेषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति / भवता यष्टव्यमिति // भावे तव्यप्रत्ययः / लोटमुदाहरति / भवान् यजतामिति // ननु चकारेण लोटोऽनुकर्षणं व्यर्थम् / प्रैषस्य विधिरूपतया अतिसर्गस्य आमन्त्रणरूपतया च 'लोट् च' इत्यनेनैव सिद्धेरित्यत आह। चकारेणेति // प्राप्तकाले यथा। गुरुणा भोक्तव्यं / गुरुर्भुजीत। भोजनं प्राप्तावसरमित्यर्थः। प्राप्तकाले च कृत्याश्च, इत्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः / अतः प्रैषादिग्रहणम् / लिङ् चोर्ध्वमौहूर्ति के // 'लोडर्थलक्षणे च' इत्युत्तरमेवञ्जातीयकमेवं सूत्रं लिङ्लड्लुड्लड्डिधायकं प्राक् पठितम् / तत्र ऊर्ध्वमौहर्तिकशब्दो व्याख्यातः / प्रैषादयः इति // तथाच मुहूर्तादुपरितनकालके धात्वर्थे विद्यमानाद्धातोः प्रैषातिसर्गप्राप्तकालेषु लिङ् च स्यात् लोट् कृत्याश्चेत्यर्थः / क्रमेण लिङादीनुदाहरति / मुहूर्तादूर्ध्व यजेत-यजतां-यष्टव्यमिति // अत्र प्राप्तकाले अप्राप्तस्य लिङो विधिः। विध्यादिसूत्रे लिविधौ प्राप्तकालस्य ग्रहणाभावात् / प्रैषातिसर्गयोस्तु विध्यादिसूत्रेणैव लिङ् सिद्ध्यति / लिङ एवात्र विधौ तु, तेन लोटः कृत्यानाञ्च बाधः स्यात् / अतश्वकारेण तेषामपि विधिरिति ज्ञेयम् / स्मे लोट् // पूर्वसूत्रेति // तथाच मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यात् , नतु लिङ् कृत्याश्चेत्यर्थः / तदाह / लिङः कृत्यानाश्चापवादः इति // अधीष्टे च॥ लोट् स्यादिति // 'अधीष्टे च' इति विहितस्य लिडोऽपवादः / अधीष्टं 1. अयं पाठः व्याख्यानभिमतः 'संप्रश्न' इति पाठस्तु साम्प्रदायिकः / For Private And Personal Use Only