________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / स्मरसि कृष्ण गोकुले वत्स्यामः / एवं बुध्यसे चेतयसे इत्यादियोगेऽपि / तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसम्भवात् / 2774 / न यदि / (3-2-113) यद्योगे इक्तं न / अभिजानासि कृष्ण यद्वने अभुमहि / 2775 / विभाषा साकाङ्के / (3-2-114) उक्तविषये लड्वा स्यात् / लक्ष्यलक्षणभावेन साकाङ्कश्चेद्धात्वर्थः / स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः / वासो लक्षणं चारणं लक्ष्यम् / पक्षे लङ् / यच्छब्दयोगेऽपि 'न यदि' (सू 2774) इति बाधित्वा परत्वाद्विकल्प: / 'परोक्षे लिट' (सू 2171) / चकार / उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् / 'सुप्तोऽहं किल विलालाप' 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' / अत्यन्तापह्नवे लिड़क्तव्यः' (वा 2084) / कलिङ्गेष्ववात्सीः / नाहं कलिङ्गाजगाम / तदाह / भूतानद्यतने इति // लङः इति // अनद्यतने लडित्यस्यापवाद इत्यर्थः / स्मरसीति // हे कृष्ण गोकुले अवसमिति यत् तत् स्मरसीत्यर्थः। अत्र वाक्यार्थः कर्म / कृतङ्गोकुलवासं स्मरसीति यावत् / एवमिति // स्मरसीति पदयोग इव वुध्यसे इत्यादिस्मृतिबोधकपदयोगे. ऽपि लडित्यर्थः / ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह / तेषामपीति // पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लट् / एतदर्थमेव वचनग्रहणमिति भावः / न यदि // यदीति सप्तमीति मत्वा आह / यद्योगे इति // उक्तं नेति // अभिज्ञावचने इति लट् न भवतीत्यर्थः / अभिजानासीति // वने अभुमहीति यत् तत् स्मरसीत्यर्थः / विभाषा // उक्तविषये इति // अभिज्ञाबोधिन्युपपदे इत्यर्थः / लक्ष्यलक्षणभावेनेति // अत्र व्याख्यानमेव शरणम् / ज्ञाप्यज्ञापकभावनेत्यर्थः / स्मरसी. ति // पूर्व वने अवसाम, तत्र वने गाः अवारयाम इति यत् तत् हे कृष्ण स्मरसीत्यर्थः / अत्र यत् इत्यस्य गम्यत्वेऽपि तस्य प्रयोगाभावान यद्योगः / वासो लक्षणमिति // चारणस्येति शेषः / उभयत्रापि लड़िकल्पः / अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः। नच यद्योग एव 'विभाषा साकांक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यम्। 'यदि वायं विकल्पः' इति भाष्यात्तदाह / यच्छन्दयोगेऽपीति // 'परोक्षे लिट्' इति प्राक् व्याख्यातमपि वि. शेषविवक्षया स्मर्यते / अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाभावात् कथमस्य लिट उत्तमपुरुष इत्यत आह / उत्तमपुरुषे चित्तेति // सुप्तः इति // सुप्तत्वादहं विललापेत्यर्थः / अत्र स्वापाच्चितविक्षेपः। बहु जगदेति // मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः / अत्र उन्मादाचित्तविक्षेपः / आदिना व्यासङ्गसङ्ग्रहः / अत्यन्तापह्नवे इति // अपरोक्षार्थमिदम् / कलिङ्गेष्ववात्सीरिति / अतस्त्वन्न सहवासयोग्य इति प्रश्नः / 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु For Private And Personal Use Only