________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 सिद्धान्तकौमुदीसहिता [भ्वादि m संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या ममासे वाक्ये तु सा विवक्षामपेक्षते / / इति / सत्ताद्यर्थनिर्देशश्चोपलक्षणम् / यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् / उपसर्गास्त्वर्थविशेषस्य द्योतकाः / प्रभवति / पराभवति / सम्भवति / अनुभवति। अभिभवति / उद्भवति / परिभवतीत्यादौ विलक्षणार्थावगतेः / उक्तं च उपसर्गेण धात्वर्थो बलादन्यत्र नीयते / प्रहाराहारसंहारविहारपरिहारवत् / / इति / / 'एध 2 वृद्धौ' / कत्थन्ताः षट्त्रिंशदनुदात्तेतः / 2233 / टित आत्मनेपदानां टेरे / ( 3.4.79) टितो लस्यात्मनेपदानां टेरेत्वं स्यात् / एधते / हरिणेति शेषः / अत्र एकपद इत्यनेन अखण्डं पदं विवक्षितम् / नित्यासमास इति लिङ्गात् / अखण्डत्वञ्च पदभिन्नोत्तरखण्डत्वम् / तथा राजीयतीत्यादौ अतो गुण इति शपा पररूपं एकादेशः पक्षे न स्यात् / अर्थनिर्देशश्चेति // धातुपाठे भू सत्तायामित्याद्यर्थनिर्देश इत्यर्थः / उपलक्षणमिति // प्रदर्शनमात्रमित्यर्थः / नन्वर्थान्तरपरिसङ्ख्या कुतो न स्यादित्यत आह / यागादिति // ननु यागात् स्वर्गों भवतीत्यादी उत्पन्यादी लक्षणा कुतो न स्यादिति वाच्यम् / प्रयोगप्राचुर्यसत्वात् / पाणिनिर्हि धातुपाटे धातून कांश्चिदर्थसहितान कांश्चिदर्थरहितान् पठतीति चुटू इति सूत्रभाष्ये स्थितम् / न चातिप्रसङ्गश्शयः / अनेकार्था अपि धातवो भवन्तीति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः / सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः / एवञ्च सेधतेर्गताविति सूत्रे गतावित्युपादानात् षिधगत्यामित्यर्थनिर्देशः अपाणिनीय एवेति दिक् / ननु भूधातोः केवलस्योत्पत्याद्यर्थकत्वे उद्भवतीत्यादी उपसर्गा व्यर्थी इत्यत आह / उपसर्गास्त्विति // उपसर्ग विनाऽपि भूधातोरुत्पत्याद्यर्थप्रतीतेः उद्भवतीत्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव न तु वाचका इति भावः / द्योतकत्वं वा तेषां किमर्थ स्वीकार्यमित्यत आह / प्रभवतीत्यादि // प्रभवः प्रकाशः उत्पत्तिः शक्तिर्वा / सम्भवः सम्भावना / पराभवः पराजयः / अनुभवः उपभोग: / अभिभवः हिंसा / उद्भवः उत्पत्तिः / परिभवः तिरस्कारः / उक्तश्चेति // हरिणेति शेषः / प्रहारः कशाद्याधातः / आहारो भक्षणम् / संहारः वधः / विहारः क्रीडा / परिहारः परित्याग: / इति भधातुप्रक्रिया // एधवृद्धाविति // जायते, आस्ति, विपरिणमते, वर्धते; अपक्षीयते, विनश्यतीति षट् भावविकाराः / तत्र चतुर्थावस्था वृद्धिः उपचयः / कत्थन्ता इति // कत्थ इलाघायामित्यन्ता इत्यर्थः / अनुदात्तेत इति // ततश्च एतेभ्य आत्मनेपदमेवेति भावः / तत्र एथ् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते / टित इति // टेः एरिति च्छेदः लस्येत्यधिकृतम् / तदाह / टितो लस्येति // आदेशानामिति For Private And Personal Use Only