________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shi प्रकरणम्] बालमनोरमा। 329 बिभित्सति / ‘इकः' किम् / यियक्षते / 'झल' किम् / विवर्धिषते / हलग्रहणं जातिपरम् / तूंहू तितृक्षति-तिद्वंहिषति / 2614 / अज्झनगमां सनि / (6-4-16) / अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि / 'सन्लिटोर्जे:' (सू 2331) / जिगीषति / 'विभाषा चे:' (सू 2525) / चिकीषतिचिचीषति / जिघांसति / / 2615 / सनि च / (2-4-47) इणो गमिः स्यात्सनि न तु बोधने / जिगमिषति / बोधने प्रतीषिषति / इत्यूदित्त्वेऽपि नित्यनेट / हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः / बिभित्सतीति // भिदेस्सनः कित्त्वान्न गुणः / यियक्षते इति // अत्र हल: इक्समीपत्वाभावान कित्त्वम् / सति तु कित्त्वे यजेस्सम्प्रसारणं स्यादिति भावः / विवर्धिषते इति // वृधेस्सनि रूपम् / अत्र सन इटि झलादित्वनेति भावः। ननु 'तूंहू हिंसायाम्' तुदादिः नोपयोऽयम्। कृतानुस्वारस्य निर्देशः / अस्मात्सनः ‘अनिदिताम् ' इति नलोपार्थकित्त्वमिष्यते / तत्रोपपाते / न ह्यत्र इत्समीपादनुस्वारात् सन् परो भवति / हकारेण व्यवधानात् / हकारात्तु परः सन् इक्समीपाद्धल: परो न भवति / अनुस्वारेण व्यवधानादित्यत आह / हग्रहणं जातिपरमिति // हल्त्वजात्याक्रान्तैकानेकव्यक्तिपरमित्यर्थः / तूंह्विति // तूंहूधातोः प्रदर्शनमिदम् / तितृक्षतीति // ऊदित्त्वादिडभावे पक्षे रूपम् / सनः कित्त्वान्नलोपः / लघूपधगुणाभावश्च / ढत्वकत्वषत्वानि / इट्पक्षे आह / तिmहिषतीति // झलादित्वाभावेन कित्त्वाभावानलोपो नेति भावः / अज्झनगमां सनि // अच् हन् गम् एषान्द्वन्द्वः / 'नोपधायाः' इत्यतः उपधायाः इत्यनुवृत्तं हनगमोरन्वेति नत्वजन्ते। असम्भवात् / अङ्गस्येत्यधिकृतम् / अचस्तद्विशेषणत्वात्तदन्तविधिः / गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् / 'ठूलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते / तदाह / अजन्तानामित्यादिना // झलादौ सनीति // ‘च्छोः शूठ' इति सूत्रभाष्ये ‘अज्झनगमाम्' इत्यत्र सनं झला विशेषयिष्याम इत्युक्तेरिति भावः / अथ जिधातोरभ्यासात् परस्य कुत्वविधि स्मारयति / सन्लिटोर्जेरिति // जिगीषतीति // जेर्दीर्घ अभ्यासात्परस्य कुत्वम् / अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति / विभाषा चेरिति // चिकीषतिचिचीषतीति // अजन्तत्वाद्दीर्घः / जिघांसतीति // हनेः सनि 'अज्झन' इत्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य / दीर्घश्रुत्या अच इत्युपस्थितेः / द्वित्वं 'अभ्यासाच्च' इति कुत्वम् / 'नश्च' इत्यनुस्वारः / सनि च // 'इणो गा लुद्धिः' इत्यतः इण इति ‘णौ गमिरबोधने' इत्यतः गमिरबोधने इति चानुवर्तते / तदाह / इणो गमिरित्यादि // जिगमिषतीति // गमेरिति इट् / अत्र 'अज्झनगमाम्' इति दी? न / झलादी सनीत्युक्तेः / प्रतीषिषतीति // 42 For Private And Personal Use Only