________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 सिद्धान्तकौमुदीसहिता [दिवादि दूङ् 1133 परितापे / दूयते / दीङ् 1134 क्षये / दीयते / 2507 / दीडो युडचि क्डिति / (6-4-63) दीङ: परस्याजादेः विङत आर्धधातुकस्य युट् स्यात् / 'वुग्युटाबुवयणोः सिद्धौ वक्तव्यौ' (वा 4062) दिदीये / 2508 / मीनातिमिनोतिदीङां ल्यपि च / (6-1-50) एषामात्त्वं स्याल्लयपि चकारादशित्येज्निमित्ते / दाता / दास्यते / अदास्त / अदास्थाः / डीङ् 1135 विहायसा गतौ / डीयते / धीङ् 1136 आधारे / धीयते / दिध्ये / घेता। मीङ् 1237 हिंसायाम् / हिंसा अब प्राणवियोगः / मीयते / रीङ् 1138 श्रवणे / रीयते / लीङ् 1139 श्लेषणे / 2509 / विभाषा लीयतेः / (6-1-51) लीयतेरिति यका निर्देशो न तु श्यना / लीलीडोरात्त्वं वा स्यादेविषये ल्यपि च / लेता-लाता / लेष्यते-लास्यते / 'एज्विषये' किम् / लीयते / षेधकाण्डारम्भसामर्थ्यादिति भावः / दुङ् परितापे इति // पीडने पीडितीभवने वेत्यर्थः। आये सकर्मकः / द्वितीये अकर्मकः / दीङ् क्षये इति // क्षयो ह्रस्वः नाशो वा / दीडो युडचि // 'आर्धधातुके' इत्यधिकृतम् अचा विशेष्यते / तदादिविधिः / दीङ इति पञ्चमी / सप्तमी षष्ठ्यर्थे / तदाह / दीङः परस्येत्यादिना // दिदी ए इति स्थिते परत्वात् ‘एरनेकाचः' इति यणि प्राप्ते नित्यत्वात् युट् / टकार इत् / उकार उच्चारणार्थः / टित्त्वादाद्यवयवः। दीदीये इति रूपमिति भावः / ननु युटि कृतेऽपि तस्यासिद्धत्वाद्यण दुर्वारः। तथाच दिय्ये इति स्यात् / इकारो न श्रूयेत यकारद्वयं श्रूयेत / इत्यत आह / वुग्युटा. विति // मीनातिमिनोति // 'आदेच उपदेशेऽशिति' इत्यतः आदित्यनुवर्तते / तदाह / एषामात्त्वं स्यात् ल्यपीति // चकारात् एचः अशितीति परनिमित्तं समुच्चीयते / तत्र एच इत्यनन्तरं निमित्ते इति शेषः। एनिमित्ते अशिति प्रत्यये च परे इति फलितम् / तदाह / चकारादशित्येज्निमित्ते इति // समुच्चीयत इति शेषः / लुड्याह / अदास्तेति // इह आत्त्वे कृते ङित्त्वे सत्यपि 'स्थाध्वोरिच्च' इति न भवति / स्थाध्वोरित्त्वे 'दीङः प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तिकादिति भावः / धीङ् आधारे इति // आधारः आधारणम् / स्थापनमिति यावत् / ली श्लेषणे इति // लीयते / लिल्ये / लिल्यिषे / विभाषा लीयतेः॥ ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति श्नाविकरणस्य ग्रहणं न स्यादित्यत आह / यका निर्देशः इति // 'सार्वधातुके यक्' इति विहितयका लीयतेरिति निर्देशः सच श्यन्नान्तसाधारणः / यक उभयत्रापि साधारण्यादिति भावः / 'मीनातिमिनोति' इत्यतः ल्यपीति ‘आदेचः' इत्यतः आदिति एच इति च / तदाह / लीलीङोरित्यादिना / For Private And Personal Use Only