________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 सिद्धान्तकौमुदीसहिता [भ्वादि 2398 / वेः स्कन्देरनिष्ठायाम् / (8-3-73) षत्वं वा स्यात् / कृत्येवेदम् अनिष्ठायाम' इति पर्युदासात / विष्कन्ता–विस्कन्ता / निष्ठायां तु विस्कन्नः / 2399 / परेश्च / (8-3-74) अस्मात्परस्य स्कन्दे: सस्य षो वा / योगविभागात ‘अनिष्ठायाम' इति न संबद्ध्यते / परिष्कन्दति-परिस्कन्दति / परिस्कन्नः-परिष्कण्णः / पत्वपक्षे णत्वम् / नच पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् / 'धातूपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् / 'पूर्व धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् / पूर्व साधनेन-' इति मतान्तरे तु न णत्वम् / अस्कान्त्सम् / अस्कान्त्स्व / अस्कान्त्स्म / अस्कन्त्स्यत् / वेः स्कन्देः॥ शेषपूरणेन सूत्रं व्याचष्टे / षत्वं वा स्यादिति // 'अपदान्तस्य मूर्धन्यः' इत्यधिकारात् ‘सिवादीनां वा' इत्यतो वेत्यनुवृत्तेश्चेति भावः / वेः परस्य स्कन्देः सस्य षो वा स्यात् / अनिष्ठायां परत इति फलितम् / ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह / कृत्येवेदमिति // पर्युदासस्य अब्राह्मणमानयेत्यादाविव सजातीयापेक्षत्वादिति भावः। विष्कन्ता-विस्कन्तेति // तृचि रूपे / अषोपदेशत्वादप्राप्ते विभाषेयम् / परेश्च // ननु विपरिभ्यां स्कन्देरनिष्ठायामित्येव सिद्ध सूत्रभेदो व्यर्थ इत्यत आह / योगेति / षत्वपक्षे इति // परिष्कन् द् त इति स्थिते अनिदितामिति नलोपे 'रदाभ्याम्' इति निष्ठातकारस्य तत्पूर्वदकारस्य च नत्वे सस्यानेन षत्वपक्षे प्रथमनकारस्य रेफापेक्षया भिन्नपदस्थत्वेऽपि षात् परत्वात् णत्वे द्वितीयनकारस्य टुत्वेन णत्वे परिष्कण्ण इति रूपमित्यर्थः। ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गम्। निमित्तनिमित्तिनोरेकपदस्थत्वात् / षत्वन्तु परि इत्युपसर्गात्मकपदान्तरस्थमिणनिमित्तीकृत्य प्रवर्तमानम्बहिरङ्गम् / ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्यासिद्धत्वात् षात्परत्वाभावात् कथं णत्वमित्याशङ्कय निराकरोति / नचेति // पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्यासिद्धत्वं यत्प्रसतन्तन्न शङ्कयमित्यन्वयः / कुत इत्यत आह / धातूपसर्गयोरिति / पूर्व धातुरिति // धातुरुपसर्गेण सह युज्यते सन्ध्यादिकार्य लभते / पश्चात् धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते / साधनशब्दः कारकवाची / इह तु तद्वाचकः प्रत्ययो लक्ष्यते / प्रत्ययेनेति यावत् / इदञ्च 'सम्प्रसारणाच' इत्यादिसूत्रभाष्ये स्पष्टम् / तदाह / भाष्यमिति / मतान्तरे त्विति // 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः / यभधातुरनिट् / यभति / ययाभ / येभतुः / थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेना For Private And Personal Use Only