________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2177 / लिटि धातोरनभ्यासस्य / (6-1-8) लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य / 'भूव्' 'भूव्' 'अ' इति स्थिते। 2178 / पूर्वोऽभ्यासः। (6-1-4) ध्यङस्सम्प्रसारणमित्यतः प्राक् अनुवयते एवेति भावः / लिटि धातोरिति // एकाचो द्वे प्रथमस्येत्यधिकृतम्। धातोरित्यवयवषष्ठी। तदाह / धात्ववयवस्येति // एकाच इति प्रथमस्येति च धात्ववयवस्य विशोषणम् / एकः अच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः / तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थः / एकाच इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् / अजादेर्द्वितीयस्येत्यप्यधिकृतम् / तत्राच्चासावादिव अजादिः तस्मादिति कर्मधारयात् पञ्चमी / तदाह / आदिभूतादचः परस्य तु द्वितीयस्येति / एकाच इति शेषः / अजादिधात्ववयवस्य एकाचश्चेत् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् / न तु प्रथमस्येति यावत् / अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाचः प्रथमस्येति कृयोगलक्षणषष्ठीञ्चाश्रित्य द्विः प्रयोग एवात्र विधीयते / न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् / आदेशप्रत्यययोरिति सूत्रभाष्येऽपि द्विः प्रयोगपक्ष एवोक्तः / तदिह विस्तरभयानलिखितम् / पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं द्वितीयत्वञ्च व्यपदशिवत्वेन बोद्धयम् / अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति तमिच्छति इन्दिन्द्रीयिषतीत्यादौ नन्द्रास्संयोगादय इति दकारस्य द्वित्वनिषेधश्च स्यात् / तत्राजादेरित्यनुवृत्तेः / धातोरिति किम् / तदभावे हि लिटि परे यः प्रथमः एकाच तस्य द्वे इत्यर्थः स्यात् / एवं सति पपाचेयादावेव स्यात् / न तु जजागारेत्यादाविति भाष्ये स्पष्टम् / न च पपाचेत्यादी लिटि धातोरिति द्वित्वे कृते लक्ष्ये लक्षणस्येति न्यायेन पुनर्द्वित्वस्याप्रसक्तेरनभ्यासग्रहणं व्यर्थमिति वाच्यम् / यङन्तात् सन्यङोरिति यनिमित्तकद्वित्वविशिष्टात् सनि सन्निमित्तकद्वित्वनिवृत्तये सन्नन्तात् सन्यङोरिति कृतद्वित्वाणिचि लुङि चडिः कृते चङीति द्वित्वनिवृत्तये चानभ्यासग्रहणस्यावश्यकत्वात् / भाष्ये तु कृष्णो नोनाव वृषभो यदीदमित्यादी नुधातोर्यङन्तात् सन्यङोरिति कृतद्वित्वात् नोनूय इत्यस्मात् लिटि कास्प्रत्ययादाममन्त्रे लिटीति मन्त्रपर्युदासादामभावे यस्य हल इति यकारलोपे अतो लोपे तिपो गलि वृद्धावावादेशे नोनावेत्यत्र लिटि धातोरिति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्या अनभ्यासग्रहणमनर्थकम् / छन्दसि वा वचनादित्युक्तम् / यडन्तात् सनि सन्नन्ताणिचि चट् लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् / प्रकृते च भूव अ इत्यत्र चत्वार एकाचः। तत्र भू इति प्रथमः। ऊन् इति द्वितीयः / ऊ इति व्यपदेशिवद्भावेन तृतीयैकाच् / भूव इति समुदायस्तु चतुर्थः / तत्र समुदाये द्विरुच्यमाने सर्वे अवयवाः द्विरुच्यन्त इति भूव इति समुदायस्यैव द्विवचनमिति भाष्ये स्पष्टम् / तदाह / भूव भूव अ इति स्थित इति // अत्र भूव् इत्यस्य एकाचः धात्ववयवत्वं प्रथमत्वञ्च व्यपदेशिवत्वाद्बोध्यम् / पूर्व इति // अत्रेति // एकाचो द्वे प्रथमस्येति For Private And Personal Use Only