________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / 119 इति च वक्ष्यते / घटयति / विघटयति / कथं तार्ह ‘कमलवनोद्घाटनं कुर्वते ये' प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि / शृणु / 'घट सङ्घाते' इति चौरादिकस्येदम / न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् / 'नान्ये मितोऽहेतौ' इति निषेधात् / अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः / व्यथ 764 भयसञ्चलनयोः / व्यथते / त्युक्तम् / ततश्चार्थान्तरवृत्तेरपि घटधातोघटादि कार्यम्भवत्येव / तदाह / घटयति / विघटयतीति // संश्लेषयनि विश्लेषयतीत्यर्थः / णा इस्वोदाहरणमिदम् / अघटि अघाटीति, चिण्युदाहरणम् / घाट घाटम् / घटं घटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् / 'नित्यवीप्सयोः' इति द्विवचनम् / ननु यद्यर्थान्तरवृत्तेरपि घट धातोर्मित्त्वन्तदा उद्घाटनं प्रविघाटांयेतेत्यत्र विकसनार्थकस्यापि घट धातोणी मित्त्वाद्रवः स्यादित्याक्षिपति / कथन्तीति / शृण्विति // समाधानमिति शेषः / चौरादिकस्येति // चुरादौ ‘घट सङ्घाते' इति पठितम्। तदिदवाटादिकात् घटधातोर्धात्वन्तरमेव / तस्य णौ मित्त्वाभावात् / हस्वाभावे उद्घाटन प्रविघाटयितेति निर्बाधमेव / अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसम्भवादिति भावः / ननु घटादिगणादन्यत्र अर्थान्तरे पठितानान्धातूनामिह घटादिगणे पाट: घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव नतु धातुभेदः / अन्यथा घटादिकत्वं गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः / ये तु धातवो घटादिगण एव पूर्व पटिताः नतु गणान्तरे तेषान्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः / घटधातुस्तु घट सङ्घाते इति चुरादौ पठितः / अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वा र्थोऽनुवाद इति लब्धम् / एवञ्च विघटयति इत्यादावर्थान्तरवृत्तौ ण्यन्तस्य मित्त्वमित्याशय निराकरोति / नचेति // तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः / कुत इत्यत आह / नान्ये मितोऽहेताविति॥ चुराद्यन्तर्गणसूत्रमिदम् / तत्र हि 'ज्ञप मिच' ‘यम च परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' / 'चिञ् चयने' इति पञ्च धातून् पठित्वा 'नाऽन्ये मितोऽहेतौ' इति पटितम् / तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति / तथाच पञ्चत्वस्य न विरोधः / एषु पञ्चस्वपि मिदित्यनुवर्तते / अहेताविति च्छेदः / कस्मादन्ये इत्यपेक्षायां सन्निहितत्वात् ज्ञपादिपञ्चभ्य इति लभ्यते / हेतुशब्देन 'हेतुमति च' इति सूत्रविहितो णिच् लभ्यते। तद्भिन्नो शिच स्वार्थिकः अहेतुः तदाह / अहेतौ स्वार्थ णिचीति // ज्ञपः आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः / ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयः ते मितो नेति फलितम् / एवञ्च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावात् 'घट चेष्टायाम्' इति निर्देशश्चौरादिकस्य ‘घट सङ्खाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते / For Private And Personal Use Only