________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
आयुर्वेदसूत्रे
तस्य तनिवर्तनमेव पुरुषार्थः । तत्कफहेतुकमित्युच्यते । तिक्तो. षणकषायरसाः कफनिवर्तकाः । रसादिषट्कस्य दोषनिवर्तकत्वम् । रसादिषु स्वाद्वम्लरसौ बातपित्तप्रकोपहेतू भवतः । तयोरेव हि र्षेष्यत् कफकारका इति । स च स्वादुरस औपाधिकरसोऽम्लरस उभावपि पवनपित्तप्रकोपकारको। प्रत्युत पवनप्रकोपस्यापि हेतू भवतः । कथं कफनिवर्तको भवतः इत्यस्वरसादाह-हदिति।
हचुचताहारमनलशोषितमामाशयस्थं कर्फ हरति ॥ ७१॥
प्राशिताहारमनलशोषितमामाशस्थं कर्फ हरति । तदेवानं प्राशितं यथाक्रममाशयादिषु स्थित्वा सारकिट्टादिविभजनं कुर्वत् यदन्नं पचति आमाशयस्थं सत् तदेव कटुरसो भवति। तत्र सूत्रवचनं
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।* पतद्वचनानुसारेण स्वभावतस्स्वादुरसोऽपि औपाधिकाम्लरसो भूत्वा पित्तमपि जनयति । तदनन्तर अम्लरसस्य कार्यकारित्वं वक्तव्यम् । आमाशयस्थितस्सन् कटुरसो भूत्वा कफनिवर्तको भवतीत्यर्थः । कटुरसस्य च कफनिवर्तकत्वं सुप्रसिद्धमिति भावः।
उद्वेजयति जिह्वानं कुर्वैश्चिमिचिमां कटुः।
नावयत्यक्षिनासास्यं कपोलौ दहतीव च ॥+ ननु एकमेव द्रव्यं त्रिधा विभजनं करोतीति सूत्रे प्रतिपादितमित्युक्तम् , तश्चिन्त्यम् । आदौ स्वादुरसस्यैव कार्यका
* अशा सूत्र I-17. + अधाश सूत्रं X-5.
For Private And Personal Use Only