SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे समानानिलेन तत्स्थान् कला ज्वलयन् पचति ॥ ६३ ॥ समानवायुनाऽनले प्रज्वलिते सति सा कळा सर्व भुक्तं पचति । धातुदेहशोषककार्यस्य च आमाशयस्य च कार्यकारणभावस्य च वक्तुं सुकरत्वादिति भावः । अत्र सूत्रधचनम् -- समानोऽग्निसमीपस्थकोष्ठे चरति सर्वतः। अनुगृह्णाति पचति विवेचयति मुश्चति ।। रसे कोष्ठे चरति सति एवमाकारेण कलायाः अबलत्वं स विमोचयेदित्यर्थः । ननु अवलाग्निना आमाशयस्थितमन्नं पक्तुं असामर्थ्य सति अतस्समानानिलेन सन्युक्षयन्तीति यदुक्तं तदसङ्गतं, अत्यशनाजाताजर्णिस्यतनिवर्तकेन विना शुद्धसमानानिलेन आमाशयस्थितानं, अनलप्रज्वलनीभूतद्रव्यादनं विना ग्रहणीकलायाः अबलत्वमपहर्तुं शक्यते । अत आह-दुष्टेति । दुष्टग्रहणी रोगस्य कारिका ॥६४॥ प्रत्युत ग्रहणीकला दुष्टा सती रोगकारिका भवतीत्यर्थः । आमेनाग्नेन दुष्टेन तदेवाविश्य कुर्वते । विष्टम्भयन्तोऽलसकं व्यावयन्तो विचिकाम् ॥ इति सूत्रवचनम् । विरुद्धान्नादनेन ग्रहणोकला दुष्टा सती भुक्तान्नं सङ्गाह्यधातुपोषणं कर्तुमसमर्था । ग्रहणीकलाया भान्यकार्यस्य अजर्णिजातामयस्य च हेतुमत्तया कार्यकारणभावत्वन दुष्टग्रहण्या रोगकारकत्वं सिद्धमित्यर्थः । * तत्स्थं. पा. भष्टा मसूत्र. XII 8. सूत्र. VIII. 5. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy