________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114
आयुर्वेदसूत्रे
पूर्वसूत्रस्यास्वारस्य निस्सारयन् आह-आमेति। . . *आमनिस्सरणकार्य कर्तव्यम् ॥ ३३ ॥
प्रत्यहं आमनिस्सरणकार्य कर्तव्यमिति बोद्धव्यम् । “ममआमवृद्धिः जाता" इति ज्ञानानन्तरं आमनिस्सरणकार्य विधिरिति ज्ञापनार्थ आमनिवृत्तिकरणमेव “प्रत्यहं मम आमवृद्धिजर्जायते” इति यस्य ज्ञानमास्ति तादृशं प्रति इदं भेषजं भवतीत्यर्थः। ___ननु शोषकद्रव्यादनजातरोगाणां पोषकद्रव्यं तत्र भेषजमिति वक्तुं न शक्यते । शोषकद्रव्यादनं नाम शुष्कद्रव्यादनम् । तेन अजीर्णे जाते सति तन्निवृत्यर्थ लङ्घनमेव कर्तव्यम् । तत्र निवर्तकीभूतपोषकद्रव्यं भेषजं भवतीति रुकप्रदर्शनानन्तरं लङ्घनेन दोषप्रकोपनिवृत्ति कृत्वा धात्वभिवृद्धयर्थ पोषकद्रव्यं तत्र भेषजं भवतु, आदावेव रुक्प्रदर्शने जाते प्रथमत एव पोषकद्रव्यप्रदानेन दोषाः प्रकुपिता भवेयुरित्यखरसादाह-यावदिति। - यावद्धात्वङ्कराभिवर्धकद्रव्याभावजातरोगाः तत्पोषकसंस्कारयुक्तस्नेहादयो निवर्तकाः ॥३४॥
किंचिद्विरुद्धरसद्रव्यादनज्ञानेन रोगाविर्भावात्पूर्वमेव तन्निवर्तकेन निवर्तयितुं सुकरमेव । तद्रव्यान्नादनादेव निवर्तयितुं शक्यते । अन्यथा रोगाङ्कुरे जाते सति तन्निदानहेतुभूताङ्गाविभीवपर्यतं निवर्तकेन ते निवां भवेयुः । धातुषु व्याध्यकुरावि. भीवकार्याभावकारणाजातरुजः तत्र पोषकद्रव्ययुक्तस्नेहादयो निवर्तकाः। अन्यथा तत्पोषकद्रव्ययुक्तस्नेहाद्याः तद्रव्यैस्स हिताः. तत्पान भ्यङ्गावलेपनात् व्याधीनिवर्तयन्तीत्यर्थः।
* कोशान्तरे इदं सूत्रं न दृश्यते.
For Private And Personal Use Only