________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80
आयुर्वेद सूत्र
__ नम्वस्थानुमानस्यानुमितिप्रहे सति व्याप्तिग्रहपूर्वकत्वं वक्तव्यम् । अत्रानुमितिस्वरूपंपृ-थिवीत्ववत्संसर्गद्रव्योल्षणजन्यस्वादुरलवहव्यविषयकस्वसमानाधिकरणानधिकरणकरस ने न्द्रियप्राह्यत्ववद्दव्यविषयकज्ञानगोचरझानत्वं अनुमितिरिति । तत्सं. सर्गजन्यस्वादुरसस्य रसनेन्द्रियविषयकशानगोचरशानकार्यत्वं, तयोव्याप्तिबहे सति अनुमित्युदयात् ।
ननु धूमाग्नयोरिव कार्यकारणभावे गृहीते स्वादुरसस्य पाकदोषनिवर्तकत्वं वक्तुं शक्यते । तत्र धूमत्वावच्छेदेन कार्यकारणभावग्रहे स्वादुरसमात्रस्य व्याधिनिवर्तकत्वे उच्चमाने अतिप्रसङ्गात् इत्यस्वरसादाह -यावदिति ।
यावदारोग्यदा रसा निवर्तकाः ॥ ५४॥
स्वाद्वम्ललवणतिक्तोषणकषायरसाः यावच्छब्दार्थबोधकाः ते रसा एवं निवर्तकाः आरोग्यदा इत्यर्थः ।
ननु सर्वशरीरिणां यदा व्याधयस्सम्भवन्ति तदानीमेव तेषां निवर्तकत्वं वक्तव्यम् । करणस्थ तु क्रियाविशेषमात्रवैलक्षण्यतया तस्य फलायाव्यवच्छिन्नत्वनियमात् । - वृथाऽपथ्यं न कुर्वीत वृथा भेषजसेवनम् । इति वचनानुसारेण व्याप्तिग्रहं वक्तुमशक्यत्वादित्यस्वरसादाह-यावदिति ।
यावदभ्यवहृतरसेभ्यो मातृजं पालयेत् ॥५५॥
यावदभ्यवहतरसेभ्यः यावद्भुक्तरसेभ्यः मातृजं मातृपिण्डं पावत्सप्तधातून पालयेत् रक्षयेत् । रसेभ्यो जातधातूनां संरक्षणं कारयेदित्यर्थः।
For Private And Personal Use Only