________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती०
-
शुभलोचनोऽपि । निरीक्षते कुत्र पदार्थसार्थ ॥१॥ अवद्यमुक्त पथि यः प्रवर्तते । प्रवर्तयत्यन्यजनं च
चरित्र निःस्पृहः ॥ स एव सेव्य स्वहितैषिणा गुरुः । स्वयं तरंस्तारयितुं क्षमः परं ॥ २ ॥ विदलयति कुबोधं P बोधयत्यागमार्थ । सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति ॥ अवगमयति कृत्याकृत्यभेदं गुरुयों । भवजल
निधिपोतस्तं विना नास्ति कश्चित् ॥ ३ ॥ ततः सर्वेषु लोकेषु यथास्थानं समुपविष्टेषु गुरुभिर्देशना प्रारब्धा, यथा -आर्य देशकुलरूपबलायु-बुद्धिबंधुरमवाप्य नरत्वं ॥ धर्मकर्म न करोति जडो यः। पोतमु. ज्झति पयोधिगतः सः ॥ १॥ यः प्राप्य दुःप्राप्यमिदं नरत्वं । धर्म न यत्नेन करोति मूढः ॥ क्लेशप्र-2 बंधेन स लब्धमब्धी । चिंतामणि पातयति प्रमादात् ॥ २ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जोवितं । व्यापार्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्चनोत्पद्यते। पीत्वा मोहमयीं प्रमादमदिरा मुन्मत्तभृतं जगत् ॥ ३ ॥ प्रमादः परमो द्वेषी । प्रमादः परमं विषं ॥ प्र-3 मादो मुक्तिपूर्दस्युः । प्रमादो नरकालयः ॥ ४ ॥ अतो भो भव्याः ! प्रमाद परिहत्य मोक्षसुखदायके धर्मे आदरो विधेयः. एवं सरिवराणां धनोपदेशं श्रुत्वा बहवो धर्मार्थिनो भव्यमनुष्या सम्यक्त्वमूलानि
--
For Private and Personal Use Only