________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
अवंती०
चरित्रम
651-
॥ श्रीजिनाय नमः॥
॥ श्री चारित्रविजयगुरुभ्यो नमः॥ ॥ अथ श्रीअवंतीसुकुमालचरित्रं प्रारभ्यते ॥
( कर्ता-श्रीशुभशीलगणो) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) श्वापदादिकृतान् योऽत्र । सहते चोपसर्गकान् ॥ प्राप्नोति चिंतितं स्थान-मवंतीसुकुमालवत. अथ श्रीआर्यसुहस्तिनामानः सूरयो भूवलये विहरंतो भव्यजीवांश्च प्रतिबोधयंतोऽन्येयुः श्रीदेवाधिदेवप्रतिमाबंदनार्थमवंतिनगर्यां समाययुः. तत्र च ते श्रीसुहस्तिसूरयः साधुपरिवारयुता नगरनिकटे उद्याने स्थिताः. एवं तान् श्रुतपारगान् श्रीआर्यसुहस्तिसूरिवरानुद्याने स्थितान् विज्ञाय सहर्षा नगरलोकास्तेषां वंदनार्थ तत्र समाययुः. यतः-विना गुरुभ्यो गुणनीरधिभ्यो । जानाति धर्म न विचक्षणोऽपि ॥ विना प्रदीपं
For Private and Personal Use Only