________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
नपेक्षित्वे सति स्वापेक्षित्वाभ्युपगम आत्माश्रयः। साक्षात् स्वापेक्षापेक्षित्वाभ्युपगमोऽन्योन्याश्रयः । स्वापेक्षापेक्षापेक्षित्वाभ्युपगमश्चक्रक तच्च त्रिचतुरादिसाधारणम् । आपत्तिप्रयोजकरूपवत्तयाऽऽपाद्यापादनमनवस्था ।
रघु० टौ. । विपर्यये साध्यं विना साधनसत्त्वेऽविरोधेन बाधकाभावेन प्रत्येतव्यो बाधकेन च निराकर्तव्यः । अन्वयः साध्यसाधनयोः सहचारः । व्यतिरेकः तदभावयोः । चक्रकान्तानां साक्षात्परम्परासाधारणमात्माश्रयत्वमेव दुष्टौ बौज। व्यवहारे पुनरवान्तरविशेषाः। यद्यप्यात्माश्रयादावष्यनिष्टप्रसङ्गः। तथापि गोबलौवर्दन्यायेन पृथगुपन्यासः ।
अथ न्यायदुर्बलस्य प्रतिबन्दीकरणं, यदतैवं शशविषाणस्यापि सिद्धिः स्यात्, दृश्यमाचनियतत्वात् प्रत्यक्षबाधस्य, न च दृश्यत्वनिहत्तरेव विषाणत्वनिवृत्तिः, अव्यापकनिवृत्तावव्याप्यनिवृत्तेरयोगात् । विषाणगतकार्यत्वप्रयुक्तत्वाच्च दृश्यत्वव्याप्तः, तेन तन्निवृत्तावपि नाकार्यस्य शृङ्गस्य निवृत्तिरिति। तच्च महार्थसिध्या कृतकृत्यस्य न परिभ्रंशाय, निष्प्रयोजनविषयत्वात्। तथापि सम्भावितस्याकोर्तिभिया नोपेक्षामर्हति प्रतिबन्दिरिति चेत्, तर्हि मा भैषौरियमुन्मोच्यते । तथाह्यर्थतः स्वशिरःशृङ्गसाधनप्रवृत्त इदं प्रष्टव्यः,
For Private and Personal Use Only