________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६४
आत्मतत्त्वविवेके सटौके
न कश्चिद्विशेषः । तदाहरणानि चाचैव यथायथं परिचेयानोति ॥
शङ्क० टी० । निमित्तान्तरमिति । साध्यप्रयोजकान्तरमित्यर्थः । समच्याप्योपाधौ तात्पर्यम् । विपर्यया विरोधेति। विपक्षबाधकाभावेन निराकर्तव्य इत्यर्थः । अन्वयेति। अन्वयसहचारग्रहे व्यतिरेकसहचारग्रहे वा साहायकं सहायत्वमाचरन्त्रुत्तरस्तर्क एव विपक्षे बाधक इत्यर्थः । साहायकमिति योपधाद्गुरूपोत्तमानिति भावे वुत्रप्रत्ययान्तं पदम् । अनुत्तर इति । नाम्त्युत्तरं यस्मादित्यर्थः । कतारं विनाऽपि कार्य स्यादिति विपक्षशङ्का, मा च न भवति । एतावता प्रबन्धेनाचेतनव्यापारस्य कर्तव्यापारसहभावनियमे दर्शिते अकारणककार्योत्पत्तिशङ्कापर्यवसन्नायास्तस्याः स्वक्रियाव्याघातादिनाऽनु(१)दयादित्यर्थः । स चेति । स्वापेक्षित्वमात्माश्रयः । स्वापेक्षापेक्षित्वमन्योन्याश्रयः । स्वापेक्षापेक्षापेक्षित्वादिश्चक्रकम् । आपत्तिप्रयोजकोभूतरूपवदापाद्यापादनमनवस्थेत्यादि वादिविनोदे स्फुटम् । व्याप्तेरुपाधेश्च लक्षणं, ग्रहणोपायो विवेचनं चानुमानमयूखे लौलावतीकण्ठाभरणे च दर्शितमिति तत्रैव अन्वेष्टव्यम् ।
ननु किं कुर्वस्तर्कः सहाय इत्यत आह । क्वचिदिति । तददाहरणानोति। आत्माश्रयादौनामुदाहरणानि। अत्रैवास्मिन्नेव ग्रन्थे क्षणिकतावादेऽपोहवादे विज्ञानवादादौ च परिचेयानौत्यर्थः ।
(१) दिनान्वयाद िनादिति २ पु० पा० ।
For Private and Personal Use Only