________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
पत्तेः। व्यावर्त्यभेद एकेन व्यावर्त्यस्य विशेष्यस्य भेदोऽपरव्यावात् । एकोपग्टहीतस्यापरेण परित्याग इति यावत् । स च द्विविधः । एकोपग्रहौतस्य अन्येन नियमतः परित्यागः कस्यचिदुपग्रहे मति कस्यचित्परित्यागश असावष्येकतरमात्रेण परस्परेण च । तत्राद्यो विरुद्धयोरेव मध्यमो व्याप्यव्यापकयोरेव चरमो व्यभिचारिणोरेव । तादृशेन भेदेन विरोध ऐक्यानुपपत्तिः । तन्मूलं व्यावृत्तिभेदमूलं तच्चेइ नास्तौति ॥
मथु० टौ । सामर्थ्यति। क्वचित्मामर्थ्य क्वचिवासामर्थ्यमिति विरुद्धधर्माध्यासात् सिद्धे क्षणिकत्वे व्याप्तेः सिद्धिरिति भावः । यद्यपि विरुद्धधर्माध्यामादेव भेदसिद्धिरिति मत्त्वस्य हेतोयी तथापि तम्मा दमात्रमनेन च क्षणिकत्वमिति प्रकारभेद इत्याशयः। स्वरूपयोग्यत्वास्वरूपयोग्यत्वात्मकसामार्थ्यामामर्थ्य एकत्र न वर्तते कारित्वाकारित्वरूपे माहित्यासाहित्यरूपे च ते प्रत्येक्षेणेव धर्मिगतत्वेनानुभवान्न विरुद्धे दूत्यत आह । विरुद्धेति। प्रमड्रेति । प्रसङ्गाभ्यां विपर्ययाभ्यां चेत्यर्थः । तथाहि कुशूलस्यं बौज यद्यङ्करसमर्थ स्यादङ्कुरं जनयेत् न चोत्पादयति तस्मान्न समर्थमेवं क्षेत्रपतितं यद्यसमर्थ स्थान जनयेत् जनयति च तस्मानासमर्थमिति प्रसङ्गाभ्यां विपर्ययाभ्यां च बीजयोर्भद इति भावः । करणं का-पधानम् । योग्यता तदवच्छेदकरूपवत्त्वम् । माध्येति । साध्यं व्यापकम् । तथा चापाद्यानुमे याभ्यामापादकानुमापकयोरविशेषप्रसङ्गादित्यर्थः ॥
For Private and Personal Use Only