________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्याति चित्तबुद्धिममीऽहंकारशब्दळवहियते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुस्वदुःखादिस्वत्रमा ध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे, यथा स्फटिकेऽधिष्ठाने लौहिल्पमानिर्भवतीय तसंसो वाऽनिर्वचनीयः समुत्पद्यते एवमात्मनि कर्तृत्वाद्यन्तरं तत्संसर्गो वाऽनिर्वचनीय इत्यर्थः / एवं च नान्यथाख्यतिः, इयांस्तु विशेषः स्फटिके जपाकुसुमे सतो लाहित्यसंसदिन्यः संसर्गः, आत्मनि तु संसर्गोत्पत्तिपक्षे न संसर्गान्तरं किन्तु स्वाश्रयतादात्म्यमेव, अहं कत्तति कर्तृत्वविशिष्टस्यैवान्तःकरणस्य तादात्म्येनाध्यासस्य विवरणाचार्यादिसंमतत्वात् , सर्वस्याच्या स्तत्वेन तंत्र संसर्गान्तरकल्पने मानाभावात् , कर्तृत्वान्तरोत्पत्तिपक्षे तु संसर्गान्तरोत्पत्तिः स्वीक्रियत एव, न च स्फटिके लौहित्यसंसर्गोत्पत्तिपक्षे लौहित्यापरोक्षत्वानुपपत्तिः स्फटिकावच्छिन्ने प्रमातचैतन्ये लौहित्याध्यासाभावादिति वाच्यम् , जपाकुसुमनिष्ठस्य प्रमाणवृत्त्याऽपरोक्षस्यैवं सतों लौहित्यस्य संसर्गः स्फटिके उत्पद्यत इति स्वीकारात् , यथा ह्यधिष्ठानापरोक्षत्वदशायामेव रजतोत्पत्तिस्तथा लौहित्यस्यापरोक्षत्वदशायामेव स्फटिके तत्संसर्गोत्पत्तिरुभयज्ञानस्यापि गृह्यमाणारी कारणत्वादिति दिए / एवं प्राणापानादयस्तद्धर्माश्चाशनायापिपसादयस्तथा श्रोत्रादयो वागादयश्च तद्धर्माश्च बधिरत्वान्धत्वादयोध्यस्यन्ते, तथा देहस्तद्धर्माः स्थूलत्वादयश्चात्मन्यध्यस्यन्ते, लत्रेन्द्रियादींना न तादात्म्याध्यासोऽहं श्रोत्रमित्यप्रतीतेः, देहस्तु मनुष्योऽहमिति प्रतीतेस्तादात्म्येनाध्यस्थल इत्याबूह्याम्। घटस्तु ब्रह्मणस्तावदपरोक्ष एव, संविद्रूपे ब्रह्मण्यभेदेनाध्यस्तत्वात् / जीवस्य तु परिच्छिन्नस्य पक्षे, अयपि न तेन सम्बन्धस्तथाप्यदृष्टेन्द्रियार्थसनिकर्षादिनोत्पद्यमानेन "वियद्वस्तुस्वभावानुरोधादेव न कारकात् / वियत्संपूर्णतोत्पत्तौ कुम्भस्यैवंदृशा धियाम् // " इति न्यायेन चित्खचितेन घटादिपर्यन्तं लम्बमानेन स्वाध्यस्तान्तः करणपरिणामम वृत्त्याख्येन संसुष्टो घटो घटसंसृष्टा वा वृत्तिर्धटावच्छिन्नब्रह्मचैतन्यावरणनिवृत्तौ तदहीननिवृत्ती वा तदुभाभावपक्षे वा विषय चैतन्याभेदेनाभिव्यक्तिहेतुः संपद्यते, ततः स्वाध्यस्तो घटः सुखवदपरीक्षः, एकत्र साक्ष्यपरोक्षत्वमन्यत्र प्रमाणापरोक्षत्वमित्येतावान् विशेषः / अपरिच्छिन्नस्य पक्षेऽपि अपरिच्छिन्नत्वं घटादिभिर्व्यवधानाभावः, तावतैवापरोक्षत्वे जगदपरोक्षत्वप्रसंग इत्यसगस्य जीवचैतन्यस्य घटोपरागार्थवृत्तिः, उपरागश्च न संयोगादिरूपः किन्तु प्रागुक्तदिशा स्वाध्यस्तत्वमेव, तथाहि; अस्मिन् पक्षे व्यवहारसौकर्याय घटावच्छिन्नचैतन्ये आवरणान्तरमज्ञाना. .न्तरं वा नोपंगम्यते; घटं जानामोति व्यवहारस्तु प्रमाणवृत्त्यभावादेव, अतो नावरणनिवृत्य For Private and Personal Use Only