SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2] आत्मख्यातिः यत्तु वह्विव्याप्यधूमवत्पर्वतवान् देश इति परामर्शात् पर्वतों वह्निमानित्यनुमितेरनुदयावह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नमुख्यविशेष्यताकपरामर्शत्वेन पर्वतो चह्निमानित्यनुमितौ हेतुता वाच्या, मुख्य विशेष्यतात्वं च प्रकारतानात्मकविशेष्यतात्वं, स्वप्रकाशनये च तदनुपपत्तिः पर्वतविशेष्यताया ज्ञानविशेष्यतानिरूपितप्रकारतात्मकत्वात् , तदतिरिक्तविशेष्यतानिरूपितप्रकारतानात्मकत्वनिवेशेन गौरवमिति, तन्न, स्वप्रकाशस्य व्यवसायानुभ्यवसायोमयाकारत्वेऽप्यविरोधात् ,तव ज्ञानमानसादौ वह्नयनुमितिसामग्र्यादिप्रतिबन्धकत्वकल्पने महागौरवाच / न च मनःसंयोगनिष्ठवैजात्यस्यैव मानसप्रत्यक्षप्रत्यक्षप्रयोजकत्वान्मानसप्रत्यक्षं प्रति मानसेतरज्ञानसामग्रया एव प्रतिबन्धकत्वं, वैजात्यस्य फलबल कल्पतया मानसेतरज्ञानजनकमनःसंयोगे तदनभ्युपगमात् / न च मनः संयोगनिष्ठवैजात्यस्य लौकिकमानसप्रत्यक्षं प्रत्येव प्रयोजकतया मानसेतरज्ञानोत्पत्ति'समये सर्वाशालौकिकमानसवारणायैव मानसेतरज्ञानसामग्याः प्रतिबन्धकत्वमावश्यकम् , अति-रिक्तप्रतिबध्यप्रतिबन्धकमावकल्पनाभियैव सर्वांशालौकिकमानसानभ्युपगमादिति वाच्यम्, मानसप्रत्यक्षप्रयोजकवैजात्यस्य मानसेतरज्ञानजनकव्यावृत्तत्वाभ्युपगमे स्वोत्पत्तिद्वितीयक्षणोत्पादितमानसपरामर्शमनः संयोगनाशे प्राक्तनपरामर्शस्यैवाभावाकेनापि मनः संयोगेन तदानुमित्यनुत्पत्तिप्रसंगात्, त्रिचतुरादिक्षणबिलम्बेन तत्र स्मरणात्मकपरामर्शकल्पनाया अपि महागौरवग्रस्तत्वात् , तदापि / संयोगो न मानसजनक इत्यस्य शपथप्रत्यायनोयत्वात्, किंचैवं जागरद्वितीयक्षणोत्पन्ननिर्विकल्प२. कजन्यघटत्वादिविशिष्टज्ञानानुव्यवसायः षष्ठक्षणोत्पन्नमनःसंयोगान्तरेण सप्तमक्षणे स्यादिति क्षण त्रयापलापप्रसंगः / किं चैवं समानविषयत्वान्तर्भावेन प्रत्यक्षसामग्या अपि बलवत्त्वकल्पनाद्विशेषदर्शनोत्तरमनुमितिः प्रत्यक्षं वेत्येपि कथं विनिगमनीयम् / न च पूर्वं तत्रानुमितिरेव पश्चात्तु सिद्धयाऽनुमितिप्रतिबन्धात् प्रत्यक्षमिति साम्प्रतम् , अनुमितिद्वयेष्टापत्या सिद्विप्रतिबन्धकत्वे मानाभावात्, मानसविशेषदर्शनस्थले उक्तवदनुपपत्तेश्चेति किमप्रकृतेन / __ यत्तु ज्ञानस्य पूर्वमनुपस्थितत्वाज्जानामीत्यत्र विशेषणतया भानानुपपत्चिरिति, तदयुक्तम्, तस्यात्मवित्तिवेद्यत्वात्, अहं सुखोत्यस्यापि सुखं साक्षात्करोमोत्याकारत्वात् , यदपि प्रत्यक्षविषयसायामिन्द्रियसन्निकर्ष एव नियामक इति तदपि न, अलौकिकप्रत्यक्षविषयतायां व्यभिचारात्, लौकिकत्वस्य प्रत्यक्षविशेषणत्वं च तस्येन्द्रियसन्निकर्षजन्यत्वरूपतया इन्द्रियसन्निकर्षजप्रत्यक्षविषतायामिन्द्रियसन्निकर्षनियामकत्वस्य प्रकृतापरिपन्थित्वात् , लौकिकत्वाख्यविषयताविशेषोऽपि नेन्द्रियसन्निकर्षमात्रप्रयोज्यः शंखादाविद पीतरूपमिति दोषप्रभवप्रत्यक्षविषयतायां व्यभिचारात् / वस्तुतश्चक्षुर्मनसोरप्राप्यकारित्वादोषाजन्यलौकिकप्रत्यक्षविषयतायामपि नेन्द्रियसन्निकर्षस्य नियामकत्वमिति स्मर्त्तव्यम् अभेदे कथं विषयत्वमिति चेद् / यथा घटा भावे घटामावविशेषत्वम् For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy