________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50] आत्मख्यातिः - वयं तु ब्रूमः--एकत्वान्यसंख्यात्वे द्वित्वादिपरार्द्धपर्यन्तसंख्यावृत्तिजातिविशेषे वा नापेक्षाबुद्धेर्जन्यतावच्छेदकत्वं व्यङ्ग्यतावच्छेदकत्वं वा। एको धान्यराशिरित्यादिप्रत्ययसिद्धे सामूहिकैकत्वे व्यभिचारात् / न द्वे इमे नीलपीते इति गौणद्वित्वाद् विलक्षणं 'द्वे इमे पटकुण्डे ' इत्यत्र द्वित्वमनुभूयते, न चैकत्र ज्ञाने द्वित्वं प्रकारोऽन्यत्र तु नेत्यपि विनिगन्तुं शक्यम् , एकत्रापि च घटे नीलत्वघटत्वाभ्यां द्वित्वमनुभूयत एवेति स्वसामग्रीप्रभवैकत्वद्वित्वाद्यनन्तपर्यायोपेतद्रव्य एव कयाचिदपेक्षयैकत्वं कयाचिच्च द्वित्वादिकं प्रतीयत इति जन्यस्य सतो द्वित्वादेरपेक्षाबुद्धिगम्यत्वं गीयते, अपेक्षाबुद्धिद्वित्वबुद्धयोः पौर्वापर्यानवभासाद्वित्वाचंशेऽपेक्षात्वाख्यविषयताशालिन्या एव बुद्धेरपेक्षाबुद्धित्वस्वीकारात् / अयं घट एतद्वयक्त्यपेक्षयको नीलत्वघटत्वाभ्यां च द्वयात्मक इत्यत्रैतव्यक्तित्वावच्छिन्नैकत्ववति घटे नीलत्वघटत्वप्रकारताद्वयनिरूपितापेक्षात्वाख्यविषयतावच्छिन्नद्वित्वप्रकारताकबुद्धेरेव नयरूपायाः स्वीकारात् / अत एव समूहालम्बनस्थलेऽपेक्षात्वस्यांशिकत्वोपपत्तिः, बाधधियश्चापेक्षान्तर्भावेनैव प्रतिबन्धकता / इमौ द्वावित्यादिस्थलेऽपि याशविषयताविशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यंजकत्वं वा स्वीक्रियते तादृशविषयतानिरूपितापेक्षात्वाख्यविषयता द्वित्वादौ सुलभा / सामान्यविशेषत्वादेरापेक्षिकत्वेऽपीयमेव रीतिरनुसतम्या / न चैवमनपेक्षकत्वाद्वित्वादिप्रत्यक्षानुपपत्तिव्यतयाऽनपेक्षविषयतान्तरस्यापि स्वीकारात् , अत एव सापेक्षत्वानपेक्षत्वाभ्यां स्याद्वादोऽपि संगच्छते, अत एव च घटोऽघटो नो घटो नो अधट इत्याकारिते विभक्तनयपरिच्छेदोपपत्तिः। न चेयं विकल्पपरम्परा शब्दशुद्ध स्पृशतु प्रत्यक्ष तु न मातंगीव स्प्रष्टुमर्हतीति वाच्यम् , अस्या धन्यायाः कन्याया भाग्यवतः प्रत्यक्षस्यैव स्प्रष्टुमर्हत्वात् / अवग्रहेहापायधारणात्मके तत्र सम्यक्त्ववासनोपनीतपरिच्छिन्नानन्तधर्मात्मकत्वावगाहितयैव लोकोत्तरप्रामाण्यव्यवस्थितेः / . जे एगं जाणइ, से सव्वं जाणइ / जे सव्वं जाणइ, से एग जाणइ // ति [ ]. भगवद्वचनप्रामाण्यस्येत्थमेव विशेषावश्यकादौ व्यवस्थापनात् / लौकिकं तु यथार्थप्रवृत्तिजनकत्वादि रूपं प्रामाण्यं घट इत्याद्यांशिकज्ञानस्यापि न वारयाम इति दिक् / तदेवमवयवावयविरूपतयैव घटादेरेकानेकत्वादिकमुपपद्यत इति स्थितम् / अवयवायविनोरेकान्तभेदे दूषणान्तरम् किञ्चावयविन एकान्तभेदे शतमाषकारब्धेऽवयविन्यवयवगुरुत्वाधिकगुरुत्वादवनतिविशेषप्रसंगः / न च गुरुतरद्रव्ययोः समयोरुत्तोलने एकत्रसंलमतृणादिगुरुत्वाधिक्यादनवनतिवदुपपत्तिः, अवयविन्यत्यन्तापकृष्टगुरुत्वस्वीकारादिति समाधानं साम्प्रतम् , समवायेन समवेतसम्बन्धेन For Private and Personal Use Only