________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरमणिमयदण्डप्रान्तवातावधूताऽ-तिशयविशदवर्णस्फारचेलाचलेन । पुर उपचितधाम्ना व्योमनीन्द्रध्वजेन, प्रकटितवपुषेव श्रेयसा राजमान:
॥२३॥ सद्धर्मचक्रेण पुरःस्थितेन, जिनः सुधाम्ना समुपोष्यमाणः। हतस्य मोहप्रतिको(के)शवस्य,चक्रेण नूनं स्ववशीकृतेन॥२४॥
स्वाम्बुजैः पादतलानुयायिमि-निषेव्यमाणो नवनीतकोमलैः ।
प्रदक्षिणावर्चविधायिभिः क्षणा-द्विनिर्जितैश्चारुमुखश्रिया ध्रुवम् ॥२५॥ सप्तभिरादिकुलकम् ॥ मणिकनकरजतनिर्मित-शालत्रयभूषितं समवसरणम् । तत्र च देवच्छन्दक-रमणीयं विदधिरे विबुधाः ॥२६॥ तस्याशोकद्रुमं मध्ये, द्वात्रिंशाद्वरर(द्वात्रिंशद्धनुरु)च्छ्यम् । चक्रुर्भव्यानिवाहातुं, चलत्पल्लवपाणिभिः ॥२७ ।। पूर्वद्वाराऽविशत्तत्र, स्वामी व(स्वर्णसमप्रभः । प्रोत्तुङ्गतनुसंस्थानः, सुमेरुरिव जङ्गमः
॥२८॥ दवा प्रदक्षिणां नत्वा, तीर्थ चोपाविशत्प्रभुः । पर्षदोऽपि गणाधीश-प्रमुखाः समुपाविशन्
॥२९॥ तदृष्ट्वाद्भुतमागत्य, प्लवमानः कुरङ्गवत् । उद्यानपालो भूपाल-मभिनन्द्य व्यजिज्ञपत्
॥३०॥ देव ? त्वनगरोद्याने, श्रीवीरः श्रीवणाभिधे । हस्तिमल्ल इवाभ्यागात् , सुसाधुकलभावृतः
॥३१॥ विविधतरुषु स्फूर्ज-त्पुष्पप्रवालफलोद्गमैः, सकलजनताचेत-श्चक्षुःप्रमोदविधायिनः । युगपतवः सर्वे, यस्यागमे विजजृम्भिरे । पुर उपवने दूर-स्थावाक्षणे(स्था वीक्षणे) सुहृदः क्षणाव)(?)॥३२॥तथाहि
किशलयकरैर्नृत्यंतीव प्रवालमणिप्रभैः, मृदुलपवनोद्धृतरुच्चैरशोकमहीरुहः ।
For Private And Personal Use Only