________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनाय नमः ॥ श्रीखरतरगच्छावतंस-रिपुरन्दर-जिनपतिसूरिशिष्य-पण्डितप्रवर-पूर्णभद्रगणिविरचितम्
अतिमुक्तकमुनिचरित्रम् ॥
ACAKACAKHABAR
श्रीमद्विश्वत्रयीनाथ, नाथं कल्याणसंपदाम् । वर्द्धमानगुणश्रेणिं, बर्द्धमानमुपास्महे नत्वा जिनपतीन् देवान् , गुरूनप्याहिती गिरम् । अतिमुक्तकबाल-चरितं परिकीय॑ते
॥२॥ अस्तीह भरतस्याङ्के, जम्बूद्वीपस्य दक्षिणे । रम्योद्यानवनोद्देशं, रम्यवापीसरोवरम्
॥३॥ रम्यहर्म्यगृहाराम, रम्यदेवकुलाकुलम् । नानापण्यसमाकीर्णा-ऽऽपणश्रेणिमनोरमम्
॥४॥ कान्तसुश्लिष्टशृङ्गाट-चतुष्कत्रिकचत्वरम् । सुरलोकसमश्रीकं, पुरं पोलासनामकम् ॥५॥ (त्रिभिर्विशेषकम् ) तेजस्वी भानुमालीच, सकलश्चन्द्रमा इव । धीमानमरमत्रीव, कविः कविरिवाभितः राजराज इव श्रीमान् , कन्दर्प इव रूपवान् । त्रायस्त्रिंशसुपर्वेव, सर्वदा सुखसङ्गतः सद्धर्मनिरतः प्रायः, सन्तुष्टात्मा निरामयः । शीलशाली निरातको, विशालसरलाशयः
॥८॥ रतः परोपकारेषु, सत्यवादी प्रियंवदः । नरवर्गों भवत्व(त्य)त्रा-ऽनुपसगों निसर्गतः ॥९॥ चतुर्भिः कुलकम् ॥
For Private And Personal Use Only