________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वत्समो न भवेदिन्दुः, सोमः पूर्णकलोऽपि च । सकलको ह्यसौ ख्यातो, निष्कलङ्कस्त्वमीक्ष्यसे
॥९३॥ तमोऽपहोऽपि मार्तण्डो, नोपमां लभते तव । उत्तापकमहा ह्येष, त्वं प्रल्हादिमहाः पुनः
॥९४॥ समुद्रोऽलब्धमध्योऽपि, सादृश्यं भजते न ते । स जडप्रकृतिस्त्वं तु, विचक्षणशिरोमणिः
॥ ९५ ॥ नतिस्ते कुरुते नाथ!, सर्वेभ्योऽपि समुन्नतिम् । मानस्ते तनुते स्वामिन् ।, विमानपतितां सताम इत्यचिन्त्यप्रभावाय, तुभ्यं स्वामिन्नमो नमः । तथा कुरु यथा नाथ !, पूर्णभद्रो भवाम्यहम् ॥९७॥
पूर्वोत्तरस्यां दिशि शुद्धभूमौ, न्यविक्षत क्षोणिपतिस्ततोऽसौ । पातुं जिनाधीशवचःसुधौघ, श्रोतोऽञ्जलिम्यां सुमनस्त्वबीजम्
॥ ९८॥ अन्येष्वपि यथास्थान,-मुपविष्टेषु सर्वतः । सुरासुरेषु सद्धर्म,-देशनां विदधे विभुः ॥९९ ॥ तथाहि ।। भो भोः ! संसारकान्तारे, बम्भ्रमद्भिः सुखैषिभिः । सुखं न प्राप्यते जीवैः, क्लेश एवानुभूयते ॥१०॥ यतः संसारकान्तारं, सर्वतोऽपि भयानकम् । क्रोधदावानलोदाम,-ज्वालाजालकरालितम् ॥१०१॥ मदाष्टकमहादुर्ग,-गिरिकूटभयङ्करम् । मायाव्यालावलीकीणं, लोभग समाकुलम्
॥ १०२॥ आपातमात्रमाधुर्य,-रम्यकामविषद्रुमम् । लसजन्मजरामृत्यु,-राक्षसौघसुदारुणम्
॥ १०३ ॥ कुतीर्थिकजनावास,-भिल्लपल्लीसमाकुलम् । रागादिभिल्लसंयुक्त,-मिह पल्लीशीषणम्
॥ १०४॥ अस्मिन्नेवंविधेऽपि स्या, संपर्कश्चेत्कदाचन । साक्षात्तीर्थाधिनाथेन, गुरुणा वा चरित्रिणा ॥ १०५॥
For Private And Personal Use Only