________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानं भाषाटीकासमेतम् । (३४३) देखना, सबप्रकारसे वैद्यको अशुभ है ॥ २५ ॥ शूकर, गोधा, सर्प, मूसा, जाहा ये सब बोलनेमें ' श्रेष्ठ हैं वानर और रीछ ये दोनों न देखनेमें और न बोलनेमें श्रेष्ठ हैं ॥ २६ ॥
धनुरैन्द्रं च लालाटमशुभं शुभमन्यतः ॥ अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च ॥ २७॥दध्यक्षतानि निर्गच्छन्वक्ष्यमाणं च मङ्गलम् ॥ वैद्यो मरिष्यतां वेश्म प्रविशन्नेव पश्यति ॥ २८ ॥ दूताद्यसाधु दृष्ट्वैवं त्यजेदातमतोऽन्यथा ॥ करुणाशुद्धसन्तानो यत्नतः समुपाचरेत् ॥ २९ ॥ मस्तकके सन्मुख इंद्रका धनुष अशुभ है और तिरछा तथा पृष्ठभागमें स्थितहुआ इंद्रका धनुष शुभ है और अग्निकरके पूरित और फूटेहुये और भीतरसे शून्य पात्र अशुभ है ॥ २७ ॥ वक्ष्यमाण रूप दही अक्षतआदि मंगलपदार्थोंको वैद्य मरनेके योग्य मनुष्यों के स्थानमें प्रवेश करताहुआ इन्है निकसताहुआ देखे तो ॥ २८ ॥ ऐसे अशुभरूप दूतआदिको देखके वैद्य रोगीकी चिकित्सा नहीं करे और इससे विपरीत अर्थात् शुभदूत आदिको देखकर दयाकरके निर्मल चित्तवाला वैद्य यत्नसे रोगीकी चिकित्सा करे ॥२९॥
दध्यक्षतेक्षुनिष्पावप्रियंगुमधुसर्पिषाम् ॥ यावकाञ्जनभृङ्गारघ. ण्टादीपसरोरुहाम् ॥३०॥ दूर्वार्द्रमत्स्यमांसानां लाजानां फलभक्षयोः ॥ रत्नेभपूर्णकुम्भानां कन्यायाः स्यन्दनस्य च ॥ ३१ ॥ नरस्य वर्द्धमानस्य देवतानां नृपस्य च ॥ शुक्लानां सुमनोबालचामराम्बरवाजिनाम् ॥३२॥शंखसाधुद्विजोष्णीषतोरणस्वस्तिकस्य च ॥ भूमेः समुद्धतायाश्च वढेः प्रज्वलितस्य च ॥३३ ॥ मनोज्ञस्यानपानस्य पूर्णस्य शकटस्य च ॥ नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रिया अपि ॥ ३४॥ जीवञ्जीवकसारङ्गसारसप्रियवादिनाम् ॥ रुचकादसिद्धार्थरोचनानां च दर्शनम् ॥३५॥ गन्धः सुसुरभिर्वर्णः सुशुक्लो मधुरो रसः॥ गोपतेरनुकूलस्य स्वरस्तद्वद्गवामपि ॥ ३६॥ मृगपक्षिनराणां च शोभिनां शोभना गिरः॥ छत्रध्वजपताकानामुक्षेपणमभिष्टुतिः ॥ ३७॥भेरीमृदंगशंखानां शब्दाः पुण्याहनिःस्वनाः॥ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः ॥३८॥ पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम् ॥
For Private and Personal Use Only