SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥ ६ ॥ www.kobatirth.org प्रकारकत्वं विहाय विधेयकत्वनिवेशः, प्रत्यक्षसामय्याः प्रतिबन्धकतायां भिन्नविषयकानुमितिसामग्र्यभावविशेषणनिवेशे विधेयता न निवेश्या, प्रयोजनाभावात्, उक्तस्थले विशेषणाभावेनैवादोषात् न च पर्वतो वह्निमानिति लौकिकचाक्षुषसामग्रीसत्त्वेऽपि पर्वतो वह्निमानित्यनुमित्यापत्तिः सामग्र्याः कारणसमूहात्मकतया तदानीमतीतानागतचक्षुस्त्वक्संयोगाद्यसत्वेनोक्तलौकिकचाक्षुषसामग्र्यभावादिति वाच्यम्, स्वाश्रयसंयुक्तवृत्तित्वसम्बन्धेन पर्वतवृत्तिचक्षुः संयोगविशिष्टवह्निवृत्तिचक्षुःसंयोगादेरेव प्रकृते पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्रीपदार्थत्वात् न च पर्वते वह्निसंयोगानवच्छेदकावच्छेदेन वौ च पर्वतसंयोगानवच्छेदकावयवावच्छेदेन चक्षुः संयोगे पर्वतो वह्निमानित्यनुमित्यनुत्पादापत्तिः, स्वावच्छेदकावच्छिन्नसंयोगाश्रयवह्निवृत्तिपर्वतसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन पर्वतचक्षुःसंयोगविशिष्टवह्निचक्षुः संयोगत्वादिनैव प्रतिबन्धकत्वात् न च भिन्नभिन्नपुरुषीयपर्वतचक्षुःसंयोगविशिष्टवह्निचक्षुः संयोगकालेऽनुमित्यनुत्पादापत्तिः, स्वाश्रयवृत्तित्वरूपसामानाधिकरण्योपदर्शितसम्बन्धाभ्यां वैशिष्ट्यनिवेशात्, स्वाश्रयत्वं वृत्तित्वं च स्वाश्रयीभूतचक्षुः संयुक्तमनःप्रतियोगिकविजातीयसंयोगसम्बन्धेन ग्राह्यम् तेन पुरुषान्तरीयवह्निचक्षुःसंयोगे पुरुषान्तरीयपर्वतचक्षुः संयोगवैशिष्ट्यविरहान्नानुपपत्तिः, प्रतिबध्यतावच्छेदकः सम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकः स्वाश्रयसंयुक्तमनः प्रतियोगिकविजातीयसंयोगः, निरुक्तसंयोगविशिष्टात्ममनः संयोगस्यैव प्रकृतसामग्रीत्वे समवाय एव वा, न तु प्रतिबध्यतावच्छेदकः सम्बन्धी विधेयता प्रतिबन्धकतावच्छेदकश्च समवायः, तथासत्येकपुरुषस्य तथाविधलौकिकप्रत्यक्षसामग्रीसच्चे पुरुषान्तरस्य तथाविधानुमित्युत्पादानापत्तिवारणाय तत्पुरुषीयत्वं निवेश्य कार्यकारणभावकल्पने गौरवप्रसङ्गात्, अथ पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्री For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः । ॥ ६ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy