SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir णमयो वह्निमानिति ज्ञानसत्त्वेऽप्यनुमितेर्न विरोधः, अतदाकारसिद्ध्याऽतदाकारसिसाधयिषाया अविघटनात् , यत्रायं पुरुषो नवेति संशयानन्तरं पुरुषत्वव्याप्यकरादिमानिति ज्ञानं तत्र विनानुमित्सां प्रत्यक्षमेवोत्पद्यते नानुमितिरित्यनुमितावनुमित्साविरहविशिष्टसमानविषयकप्रत्यक्षसामग्र्याः कामिनीजिज्ञासावत् स्वातन्त्र्येण प्रतिबन्धकत्वं कल्प्यत इत्यप्ययुक्तम् , करादिमचादनेन पुरुषेण भाव्यमितीहात्मकप्रत्यक्षोपयोगसत्वेऽनुमितेरापत्त्ययोगात् , भ्रमसंशयोत्तरप्रत्यक्षत्वावच्छिन्नं प्रति विशेषदर्शनस्य कारणत्वकल्पनापेक्षया प्रत्यक्षत्वावच्छिन्ने ईहात्वेन हेतुतायामेव लाघवमित्यस्वार्थस्यासाभि ‘ानबिन्द्वादौ' विवेचितत्वात् । यत्र च करादिमत्त्वावच्छेदेनोहात्मकप्रमाणेन पुरुषत्वव्याप्तिग्रहस्तत्रानुमानोपयोगेन करादिम-17 क्वान्यथानुपपत्त्या पुरुषत्वानुमितेरेवाभ्युपगमात् , एतेन भिन्नविषयकप्रत्यक्षेऽनुमितिसामग्रीप्रतिबन्धकत्वकल्पनमप्यपास्तम् , परामर्शानन्तरं पक्षादिप्रत्यक्षस्यावग्रहाद्यात्मकप्रत्यक्षोपयोगाभावादेवानापत्तेः, तत्तदुपयोगव्यक्तौ च तत्तददृष्टोदोधादिकं हेतुरिति न किश्चिदनुपपन्नम् , “वादक्रीडाविसामग्री-व्रीडां त्यजत पण्डिताः। सामग्रीवादमादाय, न्यायकेलिविधीयताम् ॥१॥" अथ केन रूपेणानुमितिप्रत्यक्षसामग्र्योः प्रतिवध्यप्रतिबन्धकभावः? न तावदनुमितित्वावच्छिन्ने लौकिकप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकता, मिन्नविषयेऽनुमितेरेवोत्पत्त्या व्यभिचारात्, न च समानविषयकानुमितित्वावच्छिन्ने समानविषयकलौकिकप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकता, समानविषयत्वस्य निर्वस्तुमशक्यत्वादिति चेत् , अत्र रघुदेवभट्टाचार्यप्रभृतयः पर्वतोद्देश्यकवह्निविधेयकसंयोगसंसर्गकानुमितिं प्रति पर्वतविशेष्यकवहिप्रकारकसंयोगसंसर्गकलौकिकप्रत्यक्षसामग्रीत्वादिना विशिष्यप्रतिबध्यप्रतिबन्धकमावो वाच्यः, वहिमान् पर्वतो घटवानित्यनुमितौ व्यभिचारवारणाय प्रतिवध्यतावच्छेदककोटौ 56RRORSCORRESce For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy