________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandi
सधर्मणैव साध्यस्य, साधादविरोधतः॥ स्याद्वादप्रविभक्तार्थ-विशेषव्यञ्जको नयः ॥ १०६ ॥ ___ नीयते साध्यते गम्यार्थोनेनेति नयो-हेतुः । स च हेतुः सधर्मणैव दृष्टान्तधर्मिणा साधर्म्यात्साध्यस्य साध्यधर्माधिकरणस्य | धर्मिणः परमागमप्रविभक्तस्यार्थविशेषस्य शक्यस्याभिप्रेतस्याप्रसिद्धस्य विवादगोचरत्वेन, व्यञ्जको, न पुनर्विपक्षण साधर्म्यात् , तेन
वैधादेवाविरोधेन हेतोः साध्यप्रकाशनत्योपपत्तेः । अत्र — सपक्षेणैव साध्यस्य साधादि' त्यनेन हेतोस्नैलक्षण्य ‘मविरोधादि' त्यन्यथानुपपत्तिं च दर्शयता, केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं, तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं, ' नित्यत्वैकान्तपक्षेपि विक्रिया नोपपद्यते' इति बहुलमन्यथानुपपत्तेरेव समाश्रयणात् । नन्वत्र संक्षेपात् तथाभिधानेपि त्रैलक्षण्यं शक्यमुपदर्शयितुं पश्चावयववत् । सत्यमेतत् , केवलं, यत्रार्थक्रिया न संभवति तन्न वस्तुतत्त्वं यथा विनाशैकान्तः । तथा च नित्यत्वेपि क्रमयोगपद्याभ्यामर्थक्रिया न संभवति, नापरं प्रकारान्तरमिति, त्रिलक्षणयोगेपि प्रधानमेकलक्षणं, तत्रैव साधनसामर्थ्यपरिनिष्ठिते । तदेव च प्रतिबन्धः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकं, न पुनस्तादात्म्यतदुत्पत्ती प्रतिबन्धः संयोगादिवत् , तदभावेपि हेतोः साध्याभावासंभवनियमनिर्णयलक्षणस्य भावे गमकत्वसिद्धेः, शीताचले विद्युत्पातः, केदारे कलकलायितत्वादित्यादिवत् , सत्यपि च तदुत्पत्त्यादिप्रतिबन्धेऽन्यथानुपपन्नत्वाभावे गमकत्वासंभवात् , स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादिवत् , अस्त्यत्र धूमोमेमहानसवदित्यादिवच्च । सकलविपक्षव्यावृत्तिनिश्चयाभावादस्यागमकत्वेऽन्यथानुपपन्नत्वनिश्चयाभावादेवागमकत्वमुक्तं स्यात् इति तस्यैव लक्षणत्वमस्तु, सकलसम्यग्घेतुभेदेषु कार्यस्वभावानुपलम्भेष्विव पूर्ववत्-शेषवत्-सामान्यतो दृष्टेषु वीतावीततदुभयेषु संयोगिसमवायैकार्थसमवायिविरोधिषु भूतादिषु प्रवर्तमानस्य पक्षव्यापिनः सर्वस्माञ्च विपक्षादसिद्धादिहेत्वाभासप्रपञ्चाद् व्यावर्तमानस्यान्यथानुपपन्नत्वस्य हेतुलक्षणत्वोपपत्तेः ।
For Private And Personal Use Only