________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
अष्टसहस्री विवरणम्॥ ॥३६१॥
परिच्छेदः दशमः॥
स्याद्वादकेवलज्ञाने, सर्वतत्त्वप्रकाशने ॥ भेदः साक्षादसाक्षाच्च, ह्यवस्त्वन्यतमं भवेत् ॥ १०५॥
साक्षादसाक्षात्प्रतिभासिज्ञानाभ्यामन्यस्याप्रतीतेरवस्तुत्वप्रसिद्धरित्यर्थः । स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरभ्यर्हितत्वानियम दर्शयति, परस्परहेतुकत्वात् । न चैवमन्योन्याश्रयः पूर्वसर्वज्ञद्योतितादागमादुत्तरसर्वज्ञस्य केवलोत्पत्तेः ततोप्युत्तरकालमागमद्योतनात् सर्वज्ञागमसन्तानस्यानादित्वात्। केवलज्ञानस्याभ्यर्हितत्वे वा पूर्वनिपाते व्यभिचार सूचयति, शिष्योपाध्यायादिवत् । ततोऽनवद्यो निर्देशः स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने इति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनः ? यावता 'मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु' इति श्रुतस्यासर्वपर्यायविषयत्वव्यवस्थानमिष्यते, तञ्चैव विरुध्यते, इति सूत्रविरोधं मन्यते, तदयुक्तं, पर्यायापेक्षया तदनभिधानात् । एवं हि भगवतामभिप्रायोऽत्र 'जीवादयः सप्त पदार्थास्तत्त्वं, 'जीवाजीवात्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति वचमात् । तत्प्रतिपादनाविशेषात् स्याद्वादकेवलज्ञानयोः सर्वतत्त्वप्रकाशनत्वम्' इति न विरोधः । यथैव ह्यागमः परस्मै जीवादितत्त्वमशेष प्रतिपादयति तथा केवल्यपीति न विशेषः, साक्षादसाक्षाच्च तत्त्वपरिच्छित्तिनिबन्धनत्वात् तद्भेदस्य । तदाह भेदः साक्षादसाक्षाचेति । साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिच्छिनत्ति नान्यत इति यावत् । न हि वचनात्तान्प्रकाशयति, समुत्पन्न केवलोपि भगवान् , तेषां वचनागोचरत्वात् । तदेवं स्याद्वादनयसंस्कृतं तत्त्वज्ञानं प्रमाणनयसंस्कृतमिति व्याख्याने, स्याद्वादः प्रमाण, सप्तभङ्गीवचनविधिर्नंगमादयो बहुविकल्पा नया इति संक्षेपतः प्रतिपादितं, विस्तरतोन्यत्र तत्प्ररूपणात् ॥ १०५ ॥
संप्रत्यहेतुवादागमः स्याद्वादो, हेतुवादो नयस्ताभ्यां संस्कृतमलंकृतं तत्त्वज्ञानं प्रमाण युक्तिशास्त्राविरुद्धं सुनिश्चितासंभवद्बाधकमिति व्याख्यानान्तरमभिप्रायवन्तो भगवन्तो हि हेतुलक्षणमेव प्रकाशयन्ति, स्याद्वादस्य प्रकाशितत्वात् ।
॥३६॥
For Private And Personal Use Only