________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shil Kalassagarsur Gyanmandie
अष्टसहस्री विवरणम् ॥
परिच्छेदः दशमः॥
॥३४२॥
RSANSARSARDS
समालोच्य क्षुद्रेष्वपि भवननाथस्य भुवने, नियोगाद्भूतानां मितसमितिदेशस्थितिलयम् ॥ अये! केयं भ्रान्तिः सततमपि मीमांसनजुषां, व्यवस्थातः कार्ये जगति जगदीशापरिचयः ॥१॥ इति ॥ तदुपरि मदीयानि पद्यानि ॥
अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि जनि-व्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् ॥ अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां, वृथा यद्व्यापारो जगति जगदीशस्य गदितः॥१॥
प्रवाहेणानादिः स च परिविशुद्धोपि गदितो, मलात्यन्ताभावान्ननु भवति शुद्धिगंगनवत् ॥ तमेकं मन्यन्तां सहशगतिभेदाग्रहवशा-निराशानां सर्व सफलमफलं कुग्रहजुषाम् ॥२॥
यदेवैतद्पं प्रथममथ सालम्बनपदे, तदेव ध्यानस्थं घटयति निरालम्बनसुखम् ॥ रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं, कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥ ३॥
अता लीलैशीत्यपि कपिकुलाधीतचपल-स्वभावोद्धान्तत्वं विदधति परीक्षां हि सुधियः । न यद्वयानस्याङ्गं तदिह भगवद्रपमपि किं, जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते ॥ ४॥
ततो यो योगाङ्गैर्बहुभिरिह गाङ्गैरिव जलै-विशुद्धः शुद्धात्माऽलभत विरजाः सिद्धपदवीम् ॥ निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो, ह्युपास्यत्वे तन्त्रं न तु विमतककविभुता॥५॥" कामादीति जीव(जीवात्म)त्वावच्छेदेनायं निषेधः, तेन नांशतो बाधः, सम्भवद्विशुद्धयो विशुद्धिप्रागभाववन्तः,
॥३४२॥
For Private And Personal Use Only