SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir 9 भावात् , यदि च प्रणिधानाद्यर्थ मनोवहनाड्यादी प्रवृत्तिस्वीकारादनुमित्यादिसाधारण यद्धविच्छिन्ने पदार्थप्रवृत्तिस्तद्धर्मा वच्छिन्ने तत्प्रकारकज्ञानं हेतुरिति मतं, तदेश्वरे ज्ञानमात्रसिद्धावपि कथं प्रत्यक्षसिद्धिः, प्रत्यक्षत्वमेव चेन्द्रियजन्यतावच्छेदक लाघवान तु जन्यप्रत्यक्षत्वं गौरवादिति का प्रत्याशा नित्यप्रत्यक्षाश्रयस्येश्वरस्य । यत्तु दीधितिकृतोक्तं घटत्वाद्यवच्छिन्ने कृतित्वेन हेतुत्वेऽपि खण्डघटाद्युत्पत्तिकाले कुलालादिकृतेरसचादीश्वरकृतिसिद्धिरिति, तदसत् , घटत्वाद्यवच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वात् कृतित्वेन व्यापकधर्मेणान्यथासिद्धेरतत्त्वात् । केचित्तु कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन खण्डघटोत्पत्तिकालेऽपि सत्त्वानेश्वरकृतिसिद्धिः, न च वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पत्तिकाले प्राक्तनपरमाणुद्वयसंयोगद्वथणुकादे शान्नैव सम्भवतीति वाच्यम् । पूर्वसंयोगादिध्वंसपूर्वद्वयणुकादिध्वंसानामुत्तरसंयोगद्वचणुकादावन्ततःकालोपाधितयाऽपि जनकत्वात्तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन सत्वात् , अन्यथा घटत्वांद्यवच्छिन्ने दण्डादिहेतुताया अपि भङ्गापत्तेः, न च दण्डादेः स्वप्रयोज्यविजातीयसंयोगेन हेतुत्वेऽपि कृतेर्लाघवाद्विशेष्यतयैव तत्त्वमुचितं, न च कुलालकृतिस्तदा तयाऽस्तीति वाच्यम् । विजातीयसंयोगत्वेनापि सम्बन्धत्वे गौरवाभावात् , निश्चिताव्यभिचारकत्वाच्च स्वप्रयोज्यत्वस्य तु सम्बद्धसम्बन्धत्वादित्यादि । यत्तु भट्टाचार्यैरुक्तं तत्तत्कार्याणां देशकालादिनियम ईश्वरेच्छात एवेति तत्सिद्धिः, वदन्ति हि पामरा अपीश्वरेच्छैव नियामिकेति, तदपि हृदयदरीहरूढगूढश्रद्धालतोल्लासमात्रं, पामरसंवादस्य नियतिनियामकत्वेऽपि भूम्ना दर्शनात् , सा च तत्त्वान्तरं वा केवलज्ञानं वेत्यन्यदेतत् , तथाभवितव्यतैव सर्वत्र नियामिकेति तु प्रामाणिकः प्रवादः, तस्याः सकलकारणाक्षेपकत्वेन सर्वसंवादात् । यदपि तेषां पद्यं । For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy