________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
सायं तु तत्र नोपयुज्यते, तस्य तपोजन्यातिशयविशेषरूपस्यासार्वत्रिकत्वादित्यादिना वेदान्तिभिः समर्थितः स्तोकज्ञानपक्षोऽपि निरस्तः । आत्मज्ञानस्यापि केवलस्य बन्धहेतुत्वे तत्त्वज्ञानोत्पत्त्यनवकाशात् , दोषापेक्षायां चास्मन्मतप्रवेशात्, निर्विकल्पकात्मज्ञानस्य मिथ्याज्ञानवासनानाशकत्वे मानाभावाचेति दिग्। मिथ्याज्ञानादवश्यं दोषोत्पत्ताविति मिथ्याज्ञानस्य बन्धहेतुत्वात्तस्य च दोषहेतुत्वात्ततस्तदुत्पत्तेरवर्जनीयत्वादिति भावः । न च दोषस्य बन्धहेतुकत्वमप्रामाणिक, समेऽपीष्टानिष्टादिसन्निधाने मोहबन्धोपनततद्विपाकोत्कर्षापकर्षाभ्यां तदुत्कर्षापकर्षदर्शनात्तस्य तद्धेतुकत्वसिद्धेरिति ध्येयम् ।
तदा बहोरिति न च तत्त्वज्ञानमिथ्याज्ञानयोः स्तोकत्वं बहुत्वं वाऽप्रयोजकं, किन्तु “प्रमाणादीनां तत्त्वज्ञानानिःश्रेयसालाधिगम" इति सूत्रात्तर्कपरिशुद्धिजनितप्रमाणादिषोडशपदार्थसमूहालम्बनज्ञानविशेष एव मोक्षहेतुः, तदभाव एव च बन्धहेतुरित्य
साकमभ्युपगम इति वाच्यम् । तस्य श्रद्धामात्रशरणत्वात् , सर्वैः स्वस्वाभ्युपगतपदार्थतत्त्वज्ञानस्यैव मोक्षहेतुत्वोक्तेः । अथ
प्रमाणादिपदार्थपरिशोधनमप्यात्मसाक्षात्कारायैवोपयुज्यते स एव श्रवणमनननिदिध्यासनजनितो मोक्षहेतुरिष्यते, "आत्मा वाऽदारे द्रष्टव्यः श्रोतव्य" इत्यादिश्रुतावार्थक्रमस्य बलवत्त्वादात्मश्रवणादिना तदर्शनं भावयेदित्यर्थादित्यात्मज्ञानस्यैव मोक्षहेतुत्वा
बहुस्तोकादिपक्षाश्रयणमनतिप्रयोजनमिति चेत् , न, आत्मसाक्षात्कारस्यापि यावत् स्वेतरभिन्नत्वप्रकारकस्याश्रयणे साझ्य पक्षानतिक्रमात् , अन्यथा तत्वज्ञानजनकमननोपयोगितया प्रमाणादिपदार्थपरिशोधनानापत्तेः। किश्च शरीरादिभिन्नत्वांशे लौकिकस्य तस्य कथमपरोक्षशरीराद्यभेदभ्रमनिवर्तकत्वमिति सर्वांशस्पष्टतार्थ सर्वविषयकत्वमेव युक्तमिति दिग् । एतेनैतदपीत्यादिना वृद्धबौदप्रक्रियाप्रदर्शनपूर्व तन्मतखण्डनं कृतं, तत्त्वज्ञानात् पूर्वमविद्याया अनाशे तन्मूलसंस्काराद्यनुवृत्तौ तत्त्व
For Private And Personal Use Only