SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री| विवरणम्॥ ॥३३३।।। ज्ञानात्तत्प्राप्तिः सुतरां न स्यात् । ततो नायमेकान्तः श्रेयानाभासते ज्ञानस्तोकान्मोक्ष इति, अज्ञानाद् ध्रुवो बन्ध इत्येकान्तवत् ॥९६॥ परिच्छेदः इन्द्रः सन्देहजातं द्विजहृदयगतं बाल्यकालेऽप्यपृच्छ-द्धत्त्वोचैरासने यं शुचिनयविधिना यश्च तं द्रागभावीत्॥ दशमः॥ ऐन्द्रं यस्माच्च जातं तदवयवपदैनिश्चितं शब्दशास्त्रं, शब्दब्रह्मैकसिन्धुःस जयतु चरमस्तीर्थकृद्विश्ववन्धुः ॥१॥ क्रियाः प्रिया यत्स्मरगेन सर्वाः, शास्त्राणि यत्साधनतत्पराणि ॥ चिदात्मना व्यापकतां श्रितो यो, ध्यायामि सिद्धं तमनादिशुद्धम् ॥२॥ दशमे किञ्चिद् व्याख्यायते-प्रतिज्ञातविरोधाविशेषादिति अन्त्यमिथ्याज्ञानान बन्ध इत्युक्तौ मिथ्याज्ञानमात्रात् बन्ध इति मूलप्रतिज्ञासंन्यासादेवेत्यर्थः । वस्तुतोऽन्त्यव्यतिरिक्तं मिथ्याज्ञानं बन्धहेतुरन्त्यतत्त्वज्ञानं च मोक्षहेतुरित्ययुक्तं, तत्र बन्धमोक्षजनकतावच्छेदकव्यवस्थितजात्योर्मानाभावात् , मिथ्याज्ञानवासनाद्वारानुत्पत्तितध्वंसद्वारोत्पत्तिभ्यामुपान्त्यादिव्यावृत्तत्वतदनुवृत्तत्वयोर्विनिगमनाविरहात् , मिथ्याज्ञानवासनाया एव बन्धहेतुत्वोपगमे च मतान्तरप्रवेशप्रसङ्गात् , तस्या अपि स्मृत्येकनाश्यत्वौचित्ये तत्त्वज्ञानात् पूर्व मिथ्यास्मृतिकल्पने स्मरणस्य स्मरणजनकत्वपक्षेऽपि तत्त्वज्ञानोच्छेदाच्च । किं: चागमजन्यतत्त्वज्ञानापेक्षयाऽनादिवासनादोषजन्यमिथ्याज्ञानस्य बलवचात् तत्सत्त्वे कथं तत्त्वज्ञानम् । दोषजन्यमिथ्याज्ञानापेक्षया दोषाभावसहकृतागमजन्यतत्त्वज्ञानस्यैव बलवच्चमिति चेत् , तर्हि सम्यग्दर्शनरूपतत्त्वज्ञानस्य मिध्याज्ञानविरोधित्वमेव, बन्धहेतुत्वं तु कषायोदयसहकृताबानमात्रस्यैवेति समर्थयिष्यमाणं प्रवचनवचनमेव विजयते, एतेन “आत्मानं चेद्विजानीया-दहमस्मीति पूरुषः॥ किमिच्छन् कस्य कामाय, शरीरमनुसंज्वरेत् ॥१॥” इत्यखण्डानन्दस्वरूपात्मज्ञानादेव मोक्षः, ॥३३३॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy