SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandi MLA प्रकृतपर्यनुयोग इति क्षणभङ्गरव्यवधीयमानसंबन्धः कथमिति प्रश्नस्तदवस्थः स्यादित्यर्थः । अनवस्थाप्रसञ्जनं चेति व्यवहितपरमाणूनामवस्थानाभावादित्यर्थः । तस्य परोक्तोपालम्भस्य, तत्रापि अन्तर्बहिर्वा जात्यन्तरेऽपि, वेद्यवेदका कारमिति वेद्यवेदकाकारवत्त्वं साधनमित्यर्थः । स्यात् सर्वमभ्रान्तमेव ज्ञानमित्यत्र सर्वपदमहिम्ना ज्ञानत्वावच्छेदेनाभ्रान्तत्वसाधनान्नांशतः सिद्धसाधनादिदोषः, द्वितीयभङ्गे सर्वपदानुपादानात् ज्ञानत्वसामानाधिकरण्येन भ्रान्तत्वस्य विधेयत्वान्नांशतो बाधः, प्रयोजनं तु प्राभाकरमतभङ्गः। एवमग्रेतना अपि भङ्गाः स्वपरसमयाविरोधेन भावनीयाः ॥ ८७ ।। अन्तर्वहिर्विषयताघटितप्रमात्व-भ्रान्तत्वकोटिकृतविपतिपत्तिभेदी । स श्रेयसी प्रणयितां प्रथयन् मुनीनां, रत्नत्रयस्य जयताजिनवाक्यराशिः॥१॥ ॥ इति महोपाध्यायश्रीयशोविजयगणिविरचितेष्टसहस्रीतात्पर्यविवरणे सप्तमः परिच्छेदः ॥७॥ ॥ॐ॥ ॥ अथाष्टमः परिच्छेदः॥ ॥ॐ॥ ज्ञापकमुपायतत्त्वं, समन्तभद्राकलङ्कनिर्णीतम् ॥ सकलैकान्तासंभव-मष्टसहस्री निवेदयति॥१॥ दैवादेवार्थसिद्धिश्चे-देवं पौरुषतः कथम् ॥ दैवतश्चेदनिर्मोक्षः, पौरुषं निष्फलं भवेत् ॥ ८८ ॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy