SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir परिच्छेदः सप्तमः॥ अष्टसहस्त्री इति जीवशब्दस्य सबाह्यार्थत्वसाधने संज्ञात्वस्य साधनस्यासिद्धतानैकान्तिकता वा, दृष्टान्तस्य वा साधनधर्मादिवैधुर्य, यतो न जीव-| विवरणम् ॥ सिद्धिः स्यात् । तत्सिद्धौ च तस्यार्थ परिच्छिद्य प्रवर्तमानस्य संवादविसंवादसिद्धिः सिध्यत्येव । स्यात् सर्वमभ्रान्तमेव ज्ञानं भाव प्रमेये संवादापेक्षणात् । स्याद्भ्रान्तं बहिरर्थे विसंवादापेक्षणात् । स्यादुभय, क्रमार्पिततवयात् । स्यादभ्रान्तावक्तव्यं संवादसहा॥३२४॥ र्पिततद्वयात् । स्याङ्क्रान्तावक्तव्यं विसंवादसहार्पिततद्वयात् । स्यादुभयावक्तव्यमेव क्रमाक्रमार्पततद्वयात् । इति पूर्ववत् सप्तभङ्गीप्रक्रिया योजयितव्या, तथैवातिदेशसामर्थ्यात् तद्विचारस्य सिद्धेः, प्रमाणनयादेशादपि प्रतिपत्तव्या ॥ ८७ ॥ ज्ञानैकान्तादिपक्षे गगनफलमिव ज्ञापकोपायतत्त्वं, संभाव्यं नैव मानात् कथमपि निपुणं भावयद्भिर्महद्भिः॥ स्याद्वादे तत्प्रसिद्ध विविधनयबलात्तत्वतः शुद्धबुद्धे-रित्याज्ञातं प्रपश्चाद्विचरतु सुचिरं स्वामिनः सद्वचःसु ॥१॥ ॥ इत्याप्तमीमांसालङ्कतौ सप्तमः परिच्छेदः॥ ___ 'स्वसंवित्यैवेति' तस्य चेति उक्तस्वरूपस्य साधनस्य चेत्यर्थः । एकलक्षणोऽन्यथानुपपत्त्येकलक्षणः, तेन PI परेष्टत्रिलक्षणपश्चलक्षणादिनिरासः । 'व्याहतमेतदिति' बाह्यग्राह्याभावेन भ्रान्तिभ्रान्तिज्ञसाङ्कर्यापत्तेरिति भावः। अश्या एव हीति सन्तानान्तरवतिनो भवान्तरवर्तिनश्चेत्यर्थः । पूर्वादीति पूर्वादिदिशां भिन्नभिन्नावच्छेदेनैव परमाणौ संयोगसम्भवादित्यर्थः । वृत्तिविकल्पेन वेति परमाणौ स्कन्धः कात्स्न्येन वर्तेत तदेकदेशेन वा, आधे परमाणुमात्रः स्कन्धः स्यात् , अन्त्ये च परमाणोः सांशत्वापत्तिरित्यर्थः । तस्योपालम्भाभासत्वसिद्धेरिति यत्रोभयोः समो दोष इत्याधुक्तेरिति भावः। स्वपक्षाक्षेपमेव विवृणोति समानं हि दूषणमित्यादिना, संसर्गासम्भव इति वृत्तिविकल्पग्रासादित्यर्थः ॥ ४ ॥३२४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy