________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
%%
%%
मानमदुष्ट, न च हेतोरनानासिद्धिरपि, संयुक्तसमवायादियोग्यसन्निकर्षेण तत्प्रत्यक्षात् , न च तस्याप्यनुमानापेक्षत्वेन साध्या-18 विशेषो, लिङ्गज्ञानत्वेनैवानुमितिहेतुत्वात् , तद् ज्ञानज्ञानत्वेनातचादित्यपि वक्तुं साम्प्रतम् , साध्याप्रसिद्ध्योक्तोत्तरत्वात् , अतीतानागतेष्वर्थेषु ज्ञानेन ज्ञातताया जनयितुमशक्यत्वात् , ज्ञानजन्यज्ञाततायां मानाभावाच्च, अन्यथेष्टताकृततादेरपीच्छाकृत्यादिजन्यस्य सिक्ष्यापत्तेरिति दिग् । आत्मान्तरवदिति, न च स्वीयसुखदुःखसाक्षात्कारत्वेन हर्षविषादादिहेतुत्वाददोषः, अविदिततत्साक्षात्कारस्य निर्विकल्पकतुल्यत्वेनातथात्वात् , सुखदुःखज्ञानसंवेदनत्वेन हेतुत्वौचित्यात् , सर्वदा स्वमावस्थावजाग्रद्दशायामपि, आवरणविगतविशेषादिति विगतमिति भावे क्तः । आवरणविगमविशेषादित्यर्थः । सर्वत्र ज्ञाने स्वरूपे प्रामाण्यमनावृतमेव बहिरर्थे त्वनियतस्तत्क्षयोपशम इति स्वभावकल्पनान्न विरोध इत्यर्थः ।। ८३ ॥
न च जीवो नास्त्येवेति शक्यं वक्तुं तद्बाहकप्रमाणस्य भावात् । तथा हिजीवशब्दःसबाह्यार्थः, संज्ञात्वाद्धेतुशब्दवत्॥मायादिभ्रान्तिसंज्ञाश्च,मायायैः स्वैः प्रमोक्तिवत् ॥४॥
स्वरूपव्यतिरिक्तन शरीरेन्द्रियादिकलापेन जीवशब्दोर्थवान् । तेन कृतः प्रकृतः स्यादिति विक्लवोल्लापमात्र, लोकरूढः समाश्रयणात् । का पुनरियं लोकरूढिः ? यत्रायं व्यवहारो जीवो गतस्तिष्ठतीति वा । न हि शरीरेऽयं व्यवहारो रूढस्तस्याचेतनत्वाद्भोगाधिष्ठानत्वेन रूटेः । नापीन्द्रियेषु, तेषामुपभोगसाधनत्वेन प्रसिद्धः । न शब्दादिविषये, तस्य भोग्यत्वेन व्यवहारात् । किं तर्हि ? भोक्तर्येवात्मनि जीव इति रूढिः । शरीरादिकार्यस्य चैतन्यस्य भोक्तृत्वमयुक्तं भोगक्रियावत् । ननु सुखदुःखाद्यनुभवनं भोगक्रिया । | सा पत्रान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतनाविशेषव्यापिनि भोक्तृत्वं, शरीरादिविलक्षणत्वात्तस्येति चेत्तदेवात्मद्रव्यमस्तु,
%
%45
For Private And Personal Use Only