________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम्॥
॥३१९॥
परिच्छेदः सप्तमः॥
त्वाभ्युपगमात् , अस्तु वा यद्विषयत्वावच्छेदेन ज्ञानाजन्यत्वं तद्विषयत्वावच्छेदेनौपाधिकमेव प्रत्यक्षत्वम् , अनुमित्यादावात्माज्ञानात् सुखादित्यादावप्यात्मादौ विषयताद्वयाभ्युपगमादिति दिग् । 'ज्ञाते त्विति' ज्ञाते तु प्राकट्ये, अनुभानातल्लिङ्गकादवगच्छति निश्चिनोति बुद्धिमित्यर्थः । इतरस्य प्राकट्यस्य, अनुमानापेक्षत्वप्रसङ्गादिति, अनुमानापेक्षत्वमर्थप्राकट्यस्यार्थपरिच्छेदाविशेषे हेतुः, तत्र चास्वसंविदितत्वमिति बोध्यम् । तस्यानुमेयत्वाविशेषादिति । यथा सन्तानान्तरज्ञानप्रतिभातेऽर्थे ज्ञानावच्छेदकत्वेनानुमेयत्वं तथा स्वज्ञानप्रतिभातेऽपीत्यविशेषो भावनीयः । अर्थज्ञानस्येत्यत्र ज्ञानपदे करणव्युत्पत्तिः । तेन न तस्य प्राकट्यविशेषणत्वानुपपत्तिः । कुत इति, ततः परोक्षार्थज्ञानात् कुतः प्राकट्यस्य विशेषो न कुतश्चिदनुमानापेक्षत्वतौल्यादित्यर्थः । पुंस इति, पुंस आत्मनः, स्वसंविदितत्वेनाविच्छिन्नप्राकट्यस्य च तत्राध्यस्ततया तथात्वेनेत्यर्थः । भाष्ये तदन्यतरेण परोक्षज्ञानस्वसंविदितपुरुषयोमध्ये परोक्षज्ञानस्वसंविदितार्थप्राकट्ययोमध्ये वाऽन्यतरेण, अर्थपरिसमाप्तेरर्थव्यवहारसिद्धेः । किं द्वितीयेन परोक्षज्ञानेनेत्यर्थः। 'अविभक्तकर्तृकस्यति' उपधेयैक्येऽपि कर्तृत्वकरणत्वाद्युपाधिभेदेन व्यवहारभेदसम्भवादित्यर्थः। विभक्तकर्तृकवदिति क्रियायां हि सकरणकत्वं तत्रं, न तु कर्तृभिन्नकरणवचं तदभित्रकरणवत्त्वं वेत्यत्राप्याग्रहः श्रेयानिति भावः । अर्थपरिच्छेदस्य प्राकट्यस्य, तथाप्रतीतेरयोगादिति, इदं ज्ञानं घटविषयो घटज्ञातताववादित्यनुमानस्य हेतोरज्ञानासिद्ध्या कर्तुमशक्यत्वादित्यर्थः। पक्षाज्ञानादाश्रयासिद्धिरप्यत्र द्रष्टव्या, एतेनाहं घटज्ञानवान् घटज्ञाततावत्त्वादित्यात्मपक्षकमनुमानमप्यपास्तम् , साध्याप्रसिद्धेश्चेति बोध्यम् । न च ज्ञानजन्यस्य समवायेनार्थनिष्ठस्य ज्ञातताख्यधर्मस्य सम्बन्धविशेषेणात्मनिष्ठत्वात्तल्लिङ्गकमात्मपक्षकमर्थपरिच्छेदवत्वानु
॥३१९॥
For Private And Personal Use Only