SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandi परिच्छेदः सप्तमः॥ 4%AC बष्टसहस्री उच्यते, तदपेक्षयाऽयं प्रज्ञापकविभागः सम्मतिसिद्धः-"जो हेउवायपस्खम्मि हेउओ आगमे य आगमिओ । सो समयपहाविवरणम्॥ | वओ सिद्धतविराहगो अण्णोत्ति ॥१॥" अन्यस्य विराधकत्वं च प्रतिपादकवचस्यनास्थादिदोषोत्पादनादिति बोध्यम् ॥७८॥ " हेत्वागमान्यतरपक्षविपक्षभावात् यद्ग्रथ्यते निबिडमाशु कुयुक्तिजालम् ॥ ॥३०९॥ तच्छेदनाय पटिमानमसौ बित्तिं स्याद्वादपद्धतिरनेकसुयुक्तिजालम् ॥१॥ इति महोपाध्यायश्रीयशोविजयगणिविरचितेऽष्टसहस्रीविवरणे महातर्के षष्ठःपरिच्छेदः॥ अथ सप्तमः परिच्छेदः । निर्दिष्टो यः शास्त्रे हेत्वागमनिर्णयः प्रपञ्चेन । गमयत्यष्टसहस्री संक्षेपात्तमिह सामर्थ्यात् ॥१॥ अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवात-स्तत् प्रमाणाहते कथम् ॥७९॥ ___ अन्तरङ्गस्यैव स्वसंविदितज्ञानस्यार्थता वस्तुता, न बहिरङ्गस्य जडस्य प्रतिभासानहस्येत्येकान्तोऽन्तरङ्गार्थतैकान्तः । तस्मिन्नभ्युपगम्यमानेऽखिलं बुद्धिवाक्यं हेतुवादाहेतुवादनिबन्धनमुपायतत्त्वं मृषेव स्यात् । यतश्च मृषा स्यादत एव प्रमाणाभासमेव, प्रमाणस्य सत्यत्वेन व्याप्तत्वात् , मृषात्वेन प्रमाणाभासस्य व्याप्तेः । तच्च प्रमाणाभासं प्रमाणादृते कथं संभवेत् ? तदसंभवे तब्यवहारमवास्तवमेवार्य स्वप्नव्यवहारमिव संवृत्यापि कथं प्रतिपद्यते ? तजन्मकार्यप्रभवादिवेद्यवेदकलक्षणमनैकान्तिकमादय संवित्तिरेव खण्डशः % ॥३०९॥ 95% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy