SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailasagarsur Gyanmandir STORESAKAL तात्पर्यार्थप्रतिपत्तिपर्यन्ताश्च या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति , श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात् , ताश्चोपपत्तयः श्रुतो. पयोगानन्यत्वान श्रुतत्वब्याहन्य इत्याद्युपपादितं 'ज्ञानबिन्दा' वस्माभिः । अत एव पदार्थप्रतिपत्त्यागमान् निश्चितमप्यर्थ सिसाधयिषाधीनपक्षतयाऽनुमिन्वतेऽनुमानरसिकाः, मननसाध्यश्रद्धाविशेषस्येत्थमेवोपपत्तेः, अत एव नियमतः षट्कायश्रद्धानेऽपि जिनवचनरुचिमत्त्वाद्रव्यतः सम्यग्दृष्टित्वं, नतु भावतो, भावसम्यग्दर्शनस्य सकलनयविषयविवेचनसाध्यत्वादेकविधद्विविधादिपर्यायापरिच्छेदे तदनुपपत्तेरिति वदन्ति, तदाह सम्मतौ महावादी-णियमेण सद्दहतो छक्काए भावओ ण सहइ । हंदी अपजवेसु वि सद्दहणा होइ अविभत्ता ॥१॥" अस्या अर्थः-नियमेन षडेवेत्यवधारणेन षट्कायान् श्रद्दधदपि भावतो न श्रद्धत्ते, प्रकृतधर्मघटितसप्तभङ्गपर्याप्तप्रकारताकबोधादिजनितसमूहालम्बनरुचेरेव प्रकृतधर्मभावश्रद्धापदार्थत्वात् , तदाह अपर्यायेषु भङ्गान्तरसंवलनरहितेषु धर्मेषु, अपेभिन्नक्रमत्वात् श्रद्धाऽप्पविभक्ताऽसम्पूर्णा भवति, द्रव्यश्रद्धापर्यवसन्ना भवतीति यावत् ।। अयमस्माकं मनीषोन्मेषः । अन्ये त्वेवमुत्तरार्द्ध व्याचक्षते, हन्दि यतोऽपर्ययेष्वविवक्षितपर्यायेषु पुद्गलेष्वपि श्रद्धाऽविभक्ता एकरूपा भवतीति, तथा च पूर्वोत्तरार्द्धाभ्यां जीवपुद्गलयोः सामान्यत एकरूपत्वोपदर्शनात्तदुभयघटितनिकायषदकैकान्तबाधात्तच्छूद्धानस्य द्रव्यसम्यक्त्वरूपत्वमेव जिनवचनाभिनिवेशदशायां, स्वाभिनिवेशदशायां तु शुद्धात्मस्वरूपबाधनेन तन्मात्रविश्रान्तान्तरङ्गरत्नत्रयबाधनान्मिथ्यात्वरूपत्वमेवेति तदभिप्रायमप्यविरुद्धमेवाकलयामः । तदेवं विस्ताराज्ञारुचिभेदेन हेतुवादाहेतुवादयोर्व्यापकत्वं व्यवस्थितम् , आहरणतद्देशतदोषोपन्यासादिहेतुविस्तरस्तु मत्कृतोपदेशामृततरङ्गिणीतो बोध्यः, यथा तद्व्यापकत्वे निःशङ्क चेतः स्यादित्युपरम्यते । व्यवहारतस्तु हेतुबहुलत्वात् प्रायो दृष्टिवादाख्य आगमो हेतुवादः, तदितरश्चाहेतुवाद For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy