________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
ॐॐॐ
4%AAMKAMS
| व्यणुकादिगुणाप्रत्यक्षत्वम् , न चैवं तन्तूनामेव पटत्वे तन्तुषु पट इति धीने स्यात्, स्याद्वा तन्तुषु तन्तुरित्यादिकमपीति | वाच्यम् , फलबलेन विलक्षणसंयोगवश्वरूपतन्तुत्वादेरेव विलक्षणसंयोगवत्त्वरूपपटत्वादिविशिष्टाधारतावच्छेदकत्वस्वीकाराव , पट उत्पन्नः पटो नष्ट इत्यादिधीस्तु विशेषणोत्पादनाशविषया, एकः पट इति प्रतीतिश्चैकं वनमित्यादिवत् समृहकत्व. विषया, पटो महानिति धीरप्यणूनां महत्त्वासम्भवान्महान् धान्यराशिरितिवत् संयोगविशेषरूपं महत्त्वमवगाहत इत्यादि नव्यनास्तिकमतमपास्तम् । विलक्षणसंयोगवत्तावदणुत्वस्य पटत्वरूपत्वे तावत्त्वाप्रत्यये तदप्रत्ययापत्तेः, न च विलक्षणसंयोगत्वादिकमेव पटत्वादिकं तन्तुसंयोगात्पट उत्पन्न इत्यादिव्यवहारायाथार्थ्यापत्तेः, तन्त्वाद्यग्रहे तत्संयोगाग्रहेऽपि पटत्वादिप्रतीतेश्च । किश्च विलक्षणसंस्थानावच्छेदेन सनिकर्षाद् यद्रव्यगतघटत्वादिग्रहस्तस्योत्पादविनाशमेदादिप्रत्ययानुपपत्त्या पृथगवयविसिद्धिस्तस्य चैकस्याप्यावृतानावृतत्वरक्तारक्तत्वसकम्पनिष्कम्पत्वादिना मेदाद्देशप्रदेशरूपतासिद्धौ कथं नाणूनामवयविप्रदेशतयाऽन्यत्वं, तेन कथञ्चित्रित्यत्वस्याव्याहतेः, सर्वथा नित्यत्वस्य च क्वाप्यनभ्युपगमात् । किश्च विभागजातोत्पत्याऽप्यणूनामन्यत्वं साधनीयम् , अन्यथा कपालादीनामपि तदुच्छेदापल्या सत्कार्यवादापत्तेरिति दिग् ॥ ६८॥ |
एकत्वेऽन्यतराभावः शेषाभावोऽविनाभुवः। द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा॥ ६९ ॥ ___कार्यस्य हि महदादेः कारणस्य च प्रधानस्य परस्परमेकत्वं तादात्म्यम् । तस्मिन्नभ्युपगम्यमानेऽन्यतरस्याभावः स्यात् । ततः शेषस्याप्यविनाभुवोऽभावः । इति सर्वाभावः प्रसज्यते । यदि पुनः कार्यस्य कारणेऽनुप्रवेशात्पृथगभावेपि कारणमेकमास्ते एव नित्यत्वादिति मतं, तदा द्वित्वसंख्याविरोधोपि, सर्वथैकत्वे तदसंभवात् कार्यकारणभावादिवत् । संवृतिरेव द्वित्वसंख्या तत्रेति चेत्, तर्हि
ॐ25CANCE
For Private And Personal Use Only