SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् । ॥२९५॥ परिच्छेदः चतुर्थः । ARREARSA क्रियते ततस्तेषु नानन्यतैकान्त इति युक्तम् । एतेनास्तु वा परमाणावेव गुरुत्वं व्यणुकादेरधःसंयोगस्तु गुरुत्वसापेक्षपातजन्या| वयषवेगजवेगाधीनक्रियया, पातव्यवहारस्तु वर्तिस्थदीपपातव्यवहारवद् गौणः, न चैवं महावयविपाते बहुविलम्बप्रसङ्गः, मिथो विष्टब्धावयवानां विष्टम्भाधीनक्रियाजन्यवेगेनान्त्यावयविनि द्रुतवेगसम्भवात् पातव्यवहारवत्परम्परया सम्बन्धविशेषेण वा परमाणुगुरुत्वमेव वा पतननियामकमित्यपास्तम् , अधःसंयोगे गुरुत्वस्य सामानाधिकरण्येनैव हेतुत्वात् परमाणुगतगुरुत्वेन परम्परयाऽवयविनिष्ठकार्योत्पत्तौ तद्गतरूपादिनापि चाक्षुषादिकार्यनिर्वाहेऽवयविरूपादेरप्युच्छेदप्रसङ्गात् , सम्बन्धविशेषस्य च प्रदेशस्कन्धभावाख्यतादात्म्यातिरिक्तस्य दुर्वचत्वात्तत्स्वीकारे चाणूनां कथंचिदवयविरूपतापत्ताव(न)न्यत्वस्यानायाससिद्धत्वात् । यदप्युच्यते भट्टाचार्यैर्गुरुत्व एव वा मानाभावो, वायुतेजसोस्तिर्यगूर्ध्वगमनवत् पाथ पृथिव्योरघोगमनस्यासति प्रतिबन्धकेऽदृष्टवदात्मसंयोगादिनैवोपपत्तेः, पतनप्रकर्षस्त्ववयवाधिक्यात् , अवयविनि गुरुत्वापकर्षवादिनापि तथैव वाच्यत्वादिति, तदपि चिन्त्यम् , अवयवाधिक्येन पतनप्रकर्षे महाधूमस्यापि तत्प्रसङ्गात् , स्पर्शविशेषवदवयवाधिक्यस्य तत्प्रयोजकत्वे च स्पर्शविशेषस्यैव तत्वौचित्याद् , गुरुत्वस्य च तद्गतजातिविशेषस्यैव कल्पयितुं युक्तत्वात् , एवं हि पतनहेतुतावच्छेदकं गुरुत्वं स्यादिति लाघवम् , परमते तु गुरुत्वत्वमिति गौरवमित्यस्मदेकपरिशीलितः पन्थाः। तदेवं गुरुत्वादिम स्कार्यद्रव्यभेदेन कथश्चिदन्यत्वमणूनां सिद्धम् । एतेन नित्यत्वात् कार्यद्रव्यानारम्भकत्वाचाणूनां नान्यत्वं लौकिकविषयतया द्रव्यसाक्षात्कारत्वावच्छिन्ने व्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन कारणत्वात्र केवलाणुन्यणुकप्रत्यक्षापत्तिः, तादृशसंयोगविशिष्ट वृत्तित्वादिकं च गुणादिप्रत्यक्षे तन्त्रमिति केवलाणुयणुकादिगुणाप्रत्यक्षत्वेऽपि न CXCAKACANCY ॥२९५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy