SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्योत्पत्तिस्तथा दक्षिणविषाणोपादानादपि तत्र तस्योत्पत्तेः प्रागभावसिद्धेः, यत्र यदा यस्य प्रागभावस्तत्र तदा तस्योत्पत्तिरिति नियमकल्पनाया अपि तत्र भावात् । स्वोपादानेतरनियमच कुतः स्यात् ? प्रागभावनियमादिति चेत्, समानसमयजन्मनां स एव कुतः ? तदुत्पत्तिनियमादिति चेत्, सोपि कुत: ? स्वोपादाननियमादिति चेत्, स्वोपादानेतरनियमः कुतः स्यात् ? इत्यादि पुनरावर्तते इति चक्रकम् । सव्यविषाणस्योत्पत्तिरिति प्रत्ययविशेषादुत्पत्तिनियमोपि न श्रेयान्, कारकपक्षस्य विचारयितुमारब्धत्वात् । ज्ञापकपक्षे तु प्रागभावनियमोपि तत्प्रत्ययविशेषादेवेति नोत्पत्त्या प्रागभावावगतिः, प्रागभावादप्युत्पत्तिनियमनिश्चयप्रसक्तेरितरेतराश्रयस्य दुर्निवारत्वात् । ततो नोत्पत्तेः प्रागभावः कार्यस्याभावात्मकः, तस्य भावस्वभावस्यैवाबाधितप्रतीतिविषयत्वात् प्रागभावाभावस्य कार्योत्पादरूपत्वात् ॥ ५७ ॥ तथा हि । भाष्ये चलाचलात्मकमिति उत्पादव्ययात्मना चलात्मकं धौव्यात्मना चाचलात्मकमित्यर्थः । घटयोग्यमृद्रव्यादिस्वरूपेणेति, तच्च स्वरूपं घटोपादानकारणतावच्छेदको घटसामग्री नाश्यतावच्छेदकश्च धर्मविशेषः, तदुभयैक्यकल्पनायां लाघवात्, एतेन कपालत्वादिना घटाद्युपादानकारणत्वं नैयायिकाद्यभिमतमपास्तम् । कपालादिनाशे घटादिसामय्या अहेतुत्वात्, एकस्मादेव मृत्पिण्डाच्चक्रादिव्यापारेण घटोत्पत्तिदर्शनात्, संघात भेदाभ्यां घटादेव घटान्तरोत्पत्तेश्व, कपालत्वघटत्वादिना हेतुत्वे मानाभावाच्च । न पुनः 'साधारणेनेति' व्याप्यधर्मावच्छिन्नेन व्यापकधर्मावच्छिन्नस्यान्यथासिद्धिनिरूपणादित्यर्थः । प्रागभावसिद्धेरिति तत्तद्व्यक्त्युपादानरूपप्रागभावसिद्धेरित्यर्थः । तत्र भावादिति कार्यभेदप्रयोजक भेदप्रतियोग्युपादानात्मकप्रागभावविश्रान्तत्वादिति भावः । प्रतियोगिभेदेनाभावभेदे त्वङ्गीक्रियमाणे एकप्रतियोगि काभावचतुष्टयस्यैक्यापत्तिस्ततत्कालसंसर्गावच्छिन्नप्रतियोगित्वादिनाऽभावाभ्युपगमे तु तत्तदाधेयत्वादिना घटसच्चादेरपि भेदापत्तिरित्याद्युक्तं कार्यद्रव्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir **9%
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy