SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अष्टसहस्री विवरणम् ॥ SARAKAAS ॥२७८॥ कान्तग्राहि प्रमाणं बाधकमिति चेत् , न, तस्य निरस्तत्वात् । न चैवं भिन्नप्रत्ययविषयत्वादुत्पादविनाशमात्रं स्थितिमानं च पदार्थान्तर- परिच्छेदः तयावतिष्ठते, तस्य वस्त्वेकदेशत्वान्नयप्रत्ययविषयत्वात् , स्थित्यादित्रयस्य समुदितस्य वस्तुत्वव्यवस्थितेः, तस्य प्रमाणप्रत्ययगोचरत्वात् , IP तृतीयः॥ सहकत्रोदयादि सदिति प्रतिपादनात् , तथैव " उत्पादव्ययध्रौव्ययुक्तं सत्” इति सूत्रकारवचनात् । न चेदं युक्तिरहितं, तथा युक्तिसद्भावात् , चलाचलात्मक वस्तु कृतकाकतकात्मकत्वादिति । न चात्र हेतुरसिद्धः, पूर्वरूपत्यागाविनाभाविपररूपोत्पादस्यापेक्षितपरव्यापारत्वेन कृतकत्वसिद्धेः, सदा स्थास्नुस्वभावस्यानपेक्षितपरव्यापारत्वेनाकृतकत्वनिश्चयात् । न हि चेतनस्यान्यस्य वा सर्वथोत्पत्तिः, सदादिसामान्यस्वभावेन सत एवातिशयान्तरोपलम्भाद् घटवत् कथंचिदुस्पादविगमात्मकत्वादित्यादि योज्यम् । नापि विनाश एव, तत एव तद्वत् । न च स्थितिरेव, विशेषाकारेणोत्पादविनाशवत एव सदादिसामान्येन स्थित्युपलम्भाद् द्रव्यघटवत् । इति हि पृथगुपपत्तिर्योज्यते । सदादिसामान्येन सतस्तन्त्वादेर्घटाकारातिशयान्तरोपलम्भप्रसङ्ग इति चेत् , न, स्वभावग्रहणात्। सदादिसामान्यं हि यत्स्वभावभूतं घटस्योपादानद्रव्यमसाधारणं तद्भावेन परिणमदुपलभ्यते । तेनैव सप्तोतिशयान्तराधानं घटो यथा प्रतिविशिष्टघटयोग्यमृद्रव्यादिस्वरूपेण, न पुनः साधारणेम तन्त्वादिगतसामान्येन, नापि साधारणासाधारणेन पार्थिवत्वादिसामान्येनाविशिष्टघटोपादानमृदादिसामान्येन वा प्राक्सतोतिशयान्तरोपलब्धिर्येन तन्त्वादेरपि घटपरिणतिप्रसङ्गः । नापि घटविनाशोत्तरकालमप्यसाधारणमृदादिसामान्यस्वभावेन सत्वाविशेषाद्भटोत्पत्तिः प्रसज्यते, तत्प्रागभावात्मकस्य सतस्तद्भावेनोत्पत्तिदर्शनात् , पश्चादभावात्मकस्य सतोपि तवदर्शनात् । न चैवं प्रागसत एवोत्पत्तिनियमाद् घटस्य कथंचित्प्रागसवमयुक्तं, प्रागभावस्य भावस्वभावस्य पूर्व व्यवस्थापनात् । तस्याभावस्वभावत्वे सब्येतरगोविषाणादीनां सहोत्पत्तिमियमवतामुपादानसङ्करप्रसङ्गः, प्रागभावाविशेषात् । ततो यथा स्वोपादानात्सब्यविषाण- ॥२७८॥ RESEARSAROKAR HA%EX For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy