________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ।। ॥२४६॥
परिच्छेदः द्वितीयः॥
नोच्यते इति स्यात् । ततः किं शब्दोच्चारणेन संकेतेन वा ? गोशब्दोपि गां नाभिधत्ते यथाश्वशब्दस्य । तथा च वस्तुनोनभिधाने मौनं यत्किचिद्वा वचनमाचरेत् , विशेषाभावात् । अथास्ति विशेषः। कथं स्वार्थ नाभिदधीत ? मौनाधकिचनवचनाद्वा यथार्थाभिधानस्य स्वाभिधानं मुक्त्वा विशेषस्यासंभवात् । न वै परमार्थंकतानत्वादभिधाननियमः, परमार्थकतानत्वे शब्दानामनिबन्धना न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिष्विति वचनात् । किं तूपादानविशेषादित्यपि वार्तम् , अविकल्पेपि तथैव प्रसङ्गात् । शक्यं हि वक्तुम् "अविकल्पकप्रत्यक्षस्य न परमार्थकतानत्वानियमो, द्विचन्द्रादिदर्शनाभावप्रसङ्गात् किन्तूपादानस्य स्ववासनाविशेषस्य भेदात्" इति । तदेवमवधारितात्मकं वस्तु स्वलक्षणमापनीपोत, विकल्पेनेवाविकल्पेनाप्यवधारयितुमशक्तेः । निर्विकल्पकस्यार्थसंनिधानानपेक्षत्वाद्वैशद्याञ्च परमार्थंकतानत्वमिति चेत् , न, तदनियमात् । तथा हि । नावश्यमिन्द्रियज्ञानमर्थसंनिधानमपेक्षते विप्लवाभावप्रसङ्गात् । नापि विशदात्मकमेव, दूरेपि तथाप्रतिभासप्रसङ्गाद्यथाऽऽरात् । न हि आरादेवार्थे निर्विकल्पकमिन्द्रियज्ञानम् , न पुनर्दूरे इति शक्यं वक्तुम् , इन्द्रियान्वयव्यतिरेकानुविधानाविशेषात् । दूरार्थेपीन्द्रियज्ञानं विशदात्मकमेव, तत्रावैशद्यस्याशूत्पन्नानन्तरविकल्पेन सहैकत्वाध्यारोपादेव प्रतीतेरिति चेत्, न, आसन्नार्थेपि तदवैशद्यप्रतीतिप्रसङ्गात् । न हि तत्राविकल्पानन्तरं चिराद्विकल्पस्योत्पत्तिः, पुरोवर्त्तिन्यर्थेऽक्षज्ञानजविकल्पवैशद्यस्य तल्लघुवृत्तिनिबन्धनत्वाभावप्रसङ्गात् “ विमूढो लघुवृत्तेर्वा तयोरक्यं व्यवस्यति" इति वचनविरोधात् । यदि पुनरासन्नार्थे निर्विकल्पकस्य बलीयस्त्वात्तद्वैशयेनानन्तरविकल्पावैशद्यस्याभिभवाद्वैशद्यप्रतिभासो न पुनर्दूरे विपर्ययादिति मतम् , तदा पुरोवार्तगोदर्शनवैशयेनाश्वविकल्पावैशद्यस्याभिभूतिप्रसङ्गात् तत्र वैशद्यप्रतीतिः किन्न स्यात् ? गोदर्शनभिन्नविषयत्वादश्वविकल्पस्य नैवमिति चेत् , न, नीलदर्शनविकल्पयोरपि भिन्नविषयत्वात्तद्वैशद्याप्रतीतिप्रसङ्गात् । न हि तयोरभिन्नविषयत्वम् ,
॥२४६॥
For Private And Personal Use Only