________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
श्रेयानयमुपालम्भः पृथक्त्वैकान्तवाचां ताथागतानां वैशेपिकवत् ॥ ३० ॥
समुदायत्वनिबन्धस्य च, सदन्तरत्वं त्विति, यद्यप्येकपटापेक्षयाऽन्यपटे पटान्तरत्वव्यवहारखद् ज्ञेयापेक्षया ज्ञाने सदन्तरत्वव्यवहारोऽपि सम्भवी तथापि प्रतिनियतप्रतियोगिसद्वाचकपदसमभिव्याहाराभावादयं निषेधो द्रष्टव्यः । प्रागुद्दिष्टधर्मविशिष्टान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकभेदस्यान्वयितावच्छेदकधर्मस्य चान्तरपदार्थत्वात् । वास्तवसत्सामान्यात्मनेति सत्सामान्यनिष्ठप्रतियोगित्वाभिन्नज्ञेयनिष्ठप्रतियोगिताके ज्ञानाधिकरणके भेदेऽभ्युपगम्यमान इत्यर्थः । परैरपि हि प्रतियोगितावच्छेदकावच्छिन्नसत्त्वस्याभावविरोधित्वात् सामान्यरूपेण विशेषाभावो न स्वीक्रियते तथाऽस्माभिरपि सामान्यात्मना विशेषाभाव इति मन्तव्यम् । तथा चेति यावद्विशेषभेदस्य सामान्यभेदनियतत्वादिति भावः । तादात्म्यमित्यनन्तरमेष्टव्यमिति शेषः । सामान्यस्यावास्तवत्वे दोषान्तरं समुच्चिचीषुराह ॥ ३०॥ किञ्च,सामान्यार्था गिरोन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः । ३१।। ____सामान्यमेवार्थोभिधेयो यासां ताः सामान्यार्था गिरो यतस्ताभिर्विशेषो नाभिलप्यते इत्यन्ये, तेषां मृषैव सकलाः स्वयं सत्यत्वेनाभिमता अपि गिरः स्युः, सामान्यस्य वास्तवस्याभावात् । कुतः पुनः सामान्यस्यैवाभिधेयत्वमिति चेत् , विशेषाणामशक्यसमयत्वात् । न ह्यनन्ता विशेषाः शक्याः संकेतयितुं ततो नाभिधीयेरन् , असंकेतितानभिधानात् । विशेषदर्शनवत्तबुद्धावप्रतिभासनादर्थसन्निधानानपेक्षणाच्च । न हि स्वलक्षणे दर्शने यथा संकेतनिरपेक्षो विशेषः प्रतिभासते तथा शब्दबुद्धावपि, तस्याः स्वलक्षणसंनिधानानपेक्षत्वात् , तदपेक्षत्वेऽतीतानुत्पन्नादिषु शब्दबुद्धेरभावप्रसङ्गात् । यद्येवं स्वलक्षणमनभिधेयं सामान्यमवस्तूच्यते इति वस्तु
For Private And Personal Use Only