SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥२४०॥ www.kobatirth.org चरितार्थीकर्तुमशक्यत्वात् साक्षात्कारत्वादिना सह परापरभावानुपपत्तेः, जात्योः परस्परं संकरमिच्छतामपि मते पञ्चभ्याऽवधिभावः प्रतिपाद्यमानः केन समन्वियात्, न तावद् घटत्वेन तस्यावधिघटितत्वे तथैव पटं प्रतीत्यापत्तेः । तद्धर्मेणेति चेत्, तयं द्वितीयो विकल्पः, तत्र च स एव सापेक्षप्रतिपत्तिर्भेदो नतु घटत्वादिः घटत्वादेश्व स मेदः स्यात् तद्धर्मः स्यात्, घटादेस्तु भेदपर्यनुयोगे तदभिधानमसङ्गतम् कथं च भिन्नैरनुगत भेदव्यवहारः स्यात्, तथा सति वा किं न तैरेव सदादिव्यवहारोऽपि स्यात् । नापि द्वितीयोऽनभ्युपगमात् सप्तपदार्थ्यनन्तर्भावप्रसङ्गात् । ननु घटत्वादय एव भेदो घटत्वादिज्ञानाविशेषेऽपि च प्रतियोगिज्ञान सहकारिवशाद्विचित्रव्यवहारोपपत्तिरिति चेत्, न, व्यवहारसत्यत्वार्थं वास्तवार्थगतविशेषस्यावश्यं स्वीकर्त्तव्यत्वे तत्रैव पर्यनुयोगानुवृत्तेः, अनन्तभेदपरम्पराभ्युपगमे च तत्क्रमज्ञेयतायां प्रतीत्यपर्यवसानात्, तद्युगपज्ञेयतायामनन्तत्वात् सुसदृशतया कस्यचिदन्यभेदस्यान्यदीयतयाऽपि ग्रहसम्भवादिना सर्वत्र प्रामाण्यानाश्वासप्रसङ्गात् । किञ्च घटत्वादेर्भेदत्त्वेऽवधिभूतपटत्वादिसापेक्षप्रतिपत्तिकतायां घटत्ववत्पटत्वस्यापि भेदरूपस्य भेदावधिप्रतिपत्तिसापेक्षतयाऽवधेश्व घटत्वादिनो घटत्वादिप्रतीत्यपेक्षायामन्योन्याश्रयप्रसङ्गः । भेदरूपत्वे घटत्वादेवधिप्रतीत्यपेक्षा, न तु स्वरूपमात्रप्रतिपत्तौ स्वरूपमात्रेण चावधित्वं तत् कुत एवमिति चेत्, भेदरूपता यदि तस्य स्वात्मैव तदा स्वरूपमात्रप्रतिपत्तौ नावध्यपेक्षेति शून्यं वचनम्, अथ धर्मान्तरं, तदा स एव भेदोऽस्तु, कृतं तद्वत्तया घटत्वादेर्भेदरूपतेति प्रक्रिया कल्पनया । अस्तु स एव धर्मान्तरं भेद इति चेत्, न, दूषितत्वात् । अथास्तु स्वरूपादित्रयं भेद इति चेत्, न, तद्व्यवहारस्यैकाकारस्य नानानिमित्तत्वे गोत्वाद्यनुगताकारप्रतीतेरपि कथमेकनिमित्तसिद्धौ प्रमाणत्वं व्यभिचारात्, सामान्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः द्वितीयः ॥ ॥२४० ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy