SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - च धर्मिणः सत्त्वाधारतया प्रतीतावप्यन्योन्याभावप्रतीत्यनुत्पत्तेः, प्रतियोगिवुद्धौ स्मृतित्वस्य प्रयोजकत्वेऽपि योऽसौ तत्र नासीत् सोऽयमिति स्मर्यमाणाभावप्रतियोगित्वेऽपि वस्तुगत्या भिन्नस्याभिन्नतया भ्रमेणोल्लिख्यमानस्यान्योन्याभावप्रतीत्यनुदयात् । दोषाभावोऽपि हेतुः स भ्रमोदाहरणे नास्तीति चेत्, न । पूर्वदृष्टस्मृतिमता ततो वस्तुगत्याऽन्यस्यैवानन्तरदृष्टस्य पूर्वदृष्टाद्भिन्नाभिन्नतयाऽनिरूपितस्यापि सम्भवेन तत्रेतरेतराभावबुद्ध्यापत्तेः। बुध्यत एव तत्र स इति चेत्, न, पश्चात्तत्र संशयस्य दर्शनात् , विशेषधीरपि तत्र हेतुरिति चेत्, न, विशेषत्वस्यान्योन्याभावनिरूपणं विना दुर्निरूपत्वात् । एतेन वस्तुगत्या प्रतियोगिनः स्वरूपेण स्मृतिर्वस्तुगत्या चाधिकरणस्य स्वरूपेण प्रतीतिहेतुरित्यपि निराकृतम् , भिन्नस्याभिन्नतया वृक्षादेः प्रतीयमानस्यान्योन्याभाववत्तया ग्रहणप्रसङ्गात् । नापि तृतीयः, अभावस्य निर्द्धर्मकतापक्षे तस्य विश्वाभिन्नत्वप्रसक्ती विश्वस्याभावरूपत्वेन निर्द्धर्मकतयाऽन्योन्यभेदविरहिण ऐकरूप्यापतेः । अभावे धर्माभावात् स्वरूपमेव भेद इति चेत् , न । तस्य निष्प्रतियोगिकत्वेन भेदत्वस्य वक्तुमशक्यत्वात् , निष्प्रतियोगिकेनापि तेन सप्रतियोगिकव्यहारजननाभ्युपगमे च प्रतियोगिनियमाभावात् स्वस्मादपि भेदव्यवहारोत्पत्तिप्रसङ्गात् । किश्च धर्मान्तरं भेद इति बुवतः कोऽभिसन्धिः, किं घटत्वादय एव भेदः, उत भेदो नामान्य एवैकः कश्चिद्धर्मः, आधे घटत्वादीनां सप्रतियोगिकत्वप्रसङ्गः, भेदस्य सप्रतियोगिकत्वात् , न च घटत्वादयस्तथा, पटाद्यनपेक्ष्य तेषां प्रतीतेः । यदा पटाद्यपेक्षया प्रतीयन्ते तदा भेदव्यवहारं कुर्वन्तीति चेत्, प्रतीतौ कस्य पटायपेक्षेति वाच्यं, किं घटत्वादेरुत तद्धर्मस्य कस्यचित् , आये पटाद्यपेक्षामन्तरेण कदापि घटत्वप्रतीत्यनुत्पत्तिप्रसङ्गो, न हि यदन्तरेण यदुत्पद्यते तत्तत्कारणकं नाम, वह्नाविवावान्तरजातिभेदेन कारणभेदस्य FONTHS. For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy